क्रियतामसुराः श्रेष्ठाः शुभेच्छा किंचिदस्ति वः १२.
न्यायोपार्जितवित्तेन दशमांशेन धीमता १२.
तथेति मत्वा ते सर्वे यथोक्तं देवमायया १२.
मयासुरेण च तदा भवनानि कृतानि वै १२.
तेषुपविष्टास्ते सर्वे सुस्नाताः समलंकृताः १२.
रात्रौ जागरणं सर्वैः कृतं परमया मुदा १२.
असुरा बलिमुख्याश्च पंक्तिभूता यताक्रमम् १२.
बलिश्च वृषपर्वा च नमुचिः शंख एव च १२.
वातापिरिल्वलः कुम्भो निकुम्भः प्रच्छदस्तथा १२.
महिषो महिषाक्षश्च बिडालाक्षः प्रतापवान् १२.
विबाहुर्बाहुको घोरस्तथा वै घोरदर्शनः यथाक्रमं चोपविष्टा राहुः केतुस्तथैव च॥ १२.
तेषां तु कोटिसंख्यानां दैत्यानां पंक्तिरास्थिता॥ १२.
ततस्तया तदा देव्या अमृतार्थं हि वै द्विजाः १२.
सर्वे विज्ञापिताः सद्यो गृहीतकलशा तदा १२.
करस्थेन तदा देवी कलशेन विराजिता १२.
परिवेषधराः सर्वे सुरास्ते ह्यसुरांतिकम् १२.
तान्दृष्ट्वा मोहिनी सद्य उवाच प्रमदोत्तमा॥ १२.
एते ह्यतिथयो ज्ञेया धर्म्मसर्वस्वसाधनाः प्रमाणं भवतां चाद्य कुरुध्वं मा विलंबथ॥ १२.
परेषामुपकारं च ये कुर्वंति स्वशक्तितः १२.
केवलात्मोदरार्थाय उद्योगं ये प्रकुर्वते १२.
तस्माद्विभजनं कार्यं मयैतस्य शुभव्रताः १२.
इत्युक्ते वचने देव्या तथा चक्रुरतं द्रिताः १२.
उपविष्टाश्च ते सर्वे अमृतार्थं च भो द्विजाः मोहिनी सर्वधर्म्मज्ञा असुराणां स्मयन्निव॥ १२.
आदौ ह्यभ्यागताः पूज्या इति वै वैदिकी श्रुतिः॥ १२.
तस्माद्यूयं वेदपराः सर्वे देवपरायणाः अमृतं हि महाभागा बलिमुख्या वदंतु भोः॥ १२.
बलिनोक्ता तदा देवी यत्ते मनसि रोचते १२.
एवं संमानिता तेन बलिना भावितात्मना १२.
तस्मान्नरेन्द्रकरभोरुलसद्दृकूला श्रोणीतटालसगतिर्मविह्वलांगी १२.
तदा तु देवी परिवेषयंती सा मोहिनी देवगणाय साक्षात् १२.
पुनश्च ते देवगणाः सुधारसं दत्तं तया परया विश्वमूर्त्या १२.