बभूव गायकानां च गायनं सुमहत्तदा ११.
एवं वाद्यप्रभेदैश्च विष्णुं सर्वात्मना हरिम् ११.
तथा जगुर्नारदतुंबुरादयो गंधर्वयक्षाः सुरसिद्ध संघाः ११.
प्रणम्य परमात्मानं रमायुक्तं जनार्द्दनम् १२.
उदधेर्मथ्यमानाच्च निर्गतः सुमहायशाः १२.
पाणिभ्यां पूर्णकलशं सुधायाः परिगृह्य वै १२.
तदा दैत्याः समं गत्वा हर्तुकामा बलादिव १२.
यावत्तरंगमालाभिरावृतोऽभूद्भिषक्तमः १२.
करस्थः कलशस्तस्य हृतस्तेन बलादिव १२.
कलशं सुधया पूर्णं गृहीत्वा ते समुत्सुकाः १२.
अनुजग्मुः सुसंनद्धा योद्धुकामाश्च तैः सह १२.
वयं तु केवलं देवाः सुधया परितोषिताः १२.
त्रिविष्टपं मुदा युक्तैः किमस्माभिः प्रयोजनम् अधुना विदितं तत्तु नात्र कार्या विचारणा॥ १२.
एवं निर्भार्त्सितास्तेन बलिना सुरसत्तमाः १२.
तं दृष्ट्वा विष्णुना सर्वे सुरा भग्नमनोरथा १२.
मा त्रासं कुरुतात्रार्थ आनयिष्यामि तां सुधाम् १२.
स्थापयित्वा सुरान्सर्वांस्तत्रैव मधुसूदनः १२.
तावद्दैत्याः सुसंरब्धाः परस्परमथाब्रुवन् १२.
एवं प्रवर्तमाने तु मोहिनीरूपमाश्रिताम् १२.
विस्मयेन समाविष्टा बभूवुस्तृषितेक्षणाः १२.
सुधा त्वया विभक्तव्या सर्वेषां गतिहेतवे १२.
एवमुक्ता ह्युवाचेदं स्मयमाना बलिं प्रति १२.
अनृतं साहसं माया मूर्खत्वमति लोभता १२.
निःस्नेहत्वं च विज्ञेयं धूर्तत्वं चैव तत्त्वतः १२.
यथैव श्वापदानां च वृका हिंसापरायणाः धूर्ता तथा मनुष्याणां स्त्रीज्ञेया सततं बुधैः॥ १२.
मया सह भवद्भिश्च कथं सख्यं प्रवर्तते १२.
तस्माद्भवद्भिः संचिंत्यकार्याकार्यविचक्षणैः १२.
अद्यामृतं च सर्वेषां विभजस्व यथातथम् १२.
एवमुक्ता तदा देवी मोहिनी सर्वमंगला १२.
यूयं सर्वे कृतार्थाश्च जाता दैवेन केनचित् १२.