पांडुरं गजमारूढां स्तूयमानां महर्षिभिः ११.
कराग्रे ध्रियमाणां तां दृष्ट्वा देवाः समुत्सुकाः ११.
देवांश्च दानवांश्चैव सिद्धचारणपन्नगान् ११.
आलोकितास्तथा देवास्तया लक्ष्म्या श्रियान्विताः दैत्यास्ते निःश्रिका जाता ये श्रियाऽनवलोकिताः॥ ११.
निरीक्ष्यमाणा च तदा मुकुन्दं तमालनीलं सुकपोलनासम् ११.
दृष्ट्वा तदैव सहसा वनमालयान्विता लक्ष्मीर्गजादवततार सुविस्मयंती ११.
वामांगमाश्रित्य तदा महात्मनः सोपाविशत्तत्र समीक्ष्य ता उभौ ११.
सर्वेषामेव लोकानामैकपद्येन सर्वशः ११.
लक्ष्म्या वृतो महाविष्णुर्लक्ष्मीस्तेनैव संवृता ११.
शंखाश्च पटहाश्चैव मृदंगानकगोमुखाः ११.
बभूव गायकानां च गायनं सुमहत्तदा ११.
एवं वाद्यप्रभेदैश्च विष्णुं सर्वात्मना हरिम् ११.
तथा जगुर्नारदतुंबुरादयो गंधर्वयक्षाः सुरसिद्ध संघाः ११.
प्रणम्य परमात्मानं रमायुक्तं जनार्द्दनम् १२.
उदधेर्मथ्यमानाच्च निर्गतः सुमहायशाः १२.
पाणिभ्यां पूर्णकलशं सुधायाः परिगृह्य वै १२.
तदा दैत्याः समं गत्वा हर्तुकामा बलादिव १२.
यावत्तरंगमालाभिरावृतोऽभूद्भिषक्तमः १२.
करस्थः कलशस्तस्य हृतस्तेन बलादिव १२.
कलशं सुधया पूर्णं गृहीत्वा ते समुत्सुकाः १२.
अनुजग्मुः सुसंनद्धा योद्धुकामाश्च तैः सह १२.
वयं तु केवलं देवाः सुधया परितोषिताः १२.
त्रिविष्टपं मुदा युक्तैः किमस्माभिः प्रयोजनम् अधुना विदितं तत्तु नात्र कार्या विचारणा॥ १२.
एवं निर्भार्त्सितास्तेन बलिना सुरसत्तमाः १२.
तं दृष्ट्वा विष्णुना सर्वे सुरा भग्नमनोरथा १२.
मा त्रासं कुरुतात्रार्थ आनयिष्यामि तां सुधाम् १२.
स्थापयित्वा सुरान्सर्वांस्तत्रैव मधुसूदनः १२.
तावद्दैत्याः सुसंरब्धाः परस्परमथाब्रुवन् १२.
एवं प्रवर्तमाने तु मोहिनीरूपमाश्रिताम् १२.
विस्मयेन समाविष्टा बभूवुस्तृषितेक्षणाः १२.