तस्माच्चंद्रबलं श्रेष्ठं भवतां कार्यसिद्धये ११.
एवमाश्वासिता देवा गर्गेणैव महात्मना ११.
द्विगुणं बलमापन्ना महात्मानो दृढव्रताः ११.
निर्मथ्यमानादुदधेर्गर्जमानाच्च सर्वशः ११.
तुष्टा कपिलवर्णां सा ऊधोभारेण भूयसा ११.
कामधेनुं समायांतीं दृष्ट्वा सर्वे सुरासुराः ११.
तदा तूर्याण्यनेकानि नेदुर्वाद्यान्यनेकशः ११.
तासु नीलाश्च कृष्णश्च कपिलाश्च कपिंजलाः आभिर्युक्ता तदा गोभिः सुरभिः प्रत्यदृश्यत॥ ११.
असुरासुरसंवीतां कामधेनुं ययाचिरे ११.
सर्वेभ्यश्चैव विप्रेभ्यो नानागोत्रेभ्य एव च ११.
तैर्याचितास्तेऽत्र सुरासुराश्च ददुश्च ता गाः शिवतोषणाय ११.
पुण्याहं मुनिभिः सर्वैः कारितास्ते तदा सुराः ११.
पुनः सर्वे सुसंरब्धा ममंथुः क्षीरसागरम् ११.
कल्पवृक्षः पारिजातश्चूतः संतानकस्तथा ममंथुरुग्रं त्वरिताः पुनः क्षीरार्णवं बुधा॥ ११.
निर्मथ्यमानादुदधेरभवत्सूर्यवर्चसम् ११.
स्वकीयेन प्रकाशेन भासयंतं जगत्त्रयम् ११.
सर्वे सुरा ददुस्तं वै कौस्तुभं विष्णवे तदा ममंथुः पुनरेवाब्धिं गर्जंतस्ते बलोत्कटाः॥ ११.
मथ्यमानात्ततस्तस्मादुच्चैःश्रवाः समद्भुतम् ११.
तथैव गजरत्नं च चतुःषष्ट्या समन्वितम् ११.
तान्सर्वान्मध्यतः कृत्वा पुनश्चैव ममंथिरे ११.
मदिरा विजया भृंगी तथा लशुनगृंजनाः ११.
स्थापिता नैकपद्येन तीरे नदनदीपतेः ११.
निर्मथ्यमानादुदधेस्तदासीत्सा दिव्य लक्ष्मीर्भुवनैकनाथा ११.
ब्रह्मविद्यां केचिदाहुः समर्थाः केचित्सिद्धिमृद्धिमाज्ञा मथाशाम् ११.
वदंति सर्वे केनसिद्धांतयुक्तां यां योगमायां ज्ञानशक्त्यान्विता ये॥ ११.
ददृशुस्तां महालक्ष्मीमायांती शनकैस्तदा ११.
सुस्मितां सुद्विजां श्यामां नवयौवनभूषणाम् ११.
बिंबोष्ठीं सुनसां तन्वीं सुग्रीवां चारुलोचनाम् ११.
नानारत्नप्रदीपैश्च नीराजितमुखांबुजाम् ११.
मूर्द्धनि ध्रियमाणेन च्छत्रेणापि विराजिताम् ११.