गणाधिप नमस्तेस्तु उमापुत्राघनाशन ११.
एकदंतेभवक्त्रेति तथा मूषकवाहन ११.
एवमुक्त्वा सुरान्सद्यः परिष्वज्य च सादरम् ११.
तिरोधान गतः सद्यः शंभुः परमशोभनः ११.
ततः संपूज्य विधिवद्गणाध्यक्षार्च्चने रताः ११.
संतुष्टो हि गणाध्यक्षो देवानां वरदोऽभवत् ११.
तमोगुणान्विताः सर्वे ह्यसुरा नाभ्यपूजयन् ११.
पूजयित्वा शांकरिं ते पुनः क्षीरार्णवं ययुः ११.
मंथानं मंदरं कृत्वा रज्जुं कृत्वाथ वासुकिम् ११.
मथ्यमाने तदाब्धौ च निर्गतश्चंद्र अग्रतः ११.
अर्णवे किं पुरा चंद्रो निक्षिप्तः केन सुव्रत ११.
एतत्सर्वं समासेन आदौ कथय मे प्रभो ११.
तेषां तद्वचनं श्रुत्वा सूतो वाक्यमुपाददे॥ ११.
चंद्र आपोमयो विप्रा अत्रिपुत्रो गुणान्वितः रुद्रस्यांशाद्धि दुर्वासा विष्णोरंशात्तु दत्तकः॥ ११.
क्षीराब्धिं मथ्यमानं तु दृष्ट्वा चंद्रो मुदान्वितः ११.
प्रविष्टश्चोभयप्रीत्या श्रृण्वतां भो द्विजोत्तमाः ११.
दृष्ट्वा च कांतिं त्वरितोऽथ चंद्रो नीराजितो देवगणैस्तदानीम् ११.
नमश्चक्रुश्च ते सर्वे ससुरासुरदानवाः ११.
गर्गेणोक्तास्तदा सर्वेषां बलमद्य वै ११.
चंद्रं मुरुः समायातो बुधश्चैव समागतः ११.
तस्माच्चंद्रबलं श्रेष्ठं भवतां कार्यसिद्धये ११.
एवमाश्वासिता देवा गर्गेणैव महात्मना ११.
द्विगुणं बलमापन्ना महात्मानो दृढव्रताः ११.
निर्मथ्यमानादुदधेर्गर्जमानाच्च सर्वशः ११.
तुष्टा कपिलवर्णां सा ऊधोभारेण भूयसा ११.
कामधेनुं समायांतीं दृष्ट्वा सर्वे सुरासुराः ११.
तदा तूर्याण्यनेकानि नेदुर्वाद्यान्यनेकशः ११.
तासु नीलाश्च कृष्णश्च कपिलाश्च कपिंजलाः आभिर्युक्ता तदा गोभिः सुरभिः प्रत्यदृश्यत॥ ११.
असुरासुरसंवीतां कामधेनुं ययाचिरे ११.
सर्वेभ्यश्चैव विप्रेभ्यो नानागोत्रेभ्य एव च ११.