येनाद्य रक्षिताः सर्वे कालकूटमहाभयात् १०.
लोका भस्मीकृता येन तस्माद्येनापि रक्षिताः १०.
कर्मारंभे तु विघ्नेशं ये नार्चंति गणाधिपम् १०.
एतन्महेशस्य वचो निशम्य सुरासुराः किंनरचारणाश्च १०.
प्रतिपक्षे चतुर्थ्यां तु पूजनीयो गणाधिपः ११.
कृत्वा चावस्यकं सर्वं गणेशस्यार्चनक्रियाम् ११.
ध्यानमादौ प्रकर्तव्यं गणेशस्य यथाविधि ११.
बहुधोपासका यस्मात्तमः सत्त्वरजोन्विताः ११.
पंचवक्त्रो गणाध्यक्षो दशबाहुस्त्रिलोचनः ११.
मुखानि तस्य पंचैव कथयामि यतातथम्॥ ११.
मध्यमं तु मुखं गौरं चतुर्दन्तं त्रिलोचनम् ११.
तथान्यत्पीतवर्णं च नीलं च शुभलक्षणम् ११.
तथा दशभुजेष्वेव ह्यायुधानि ब्रवीमि वः ११.
अक्षमालां लांगलं च मुसलं वरदं तथा ११.
लंबोदर विरूपाक्षं निवीतं मेखलान्वितम् ११.
ध्यानं च सात्त्विकं ज्ञेयं राजसं हि नृणामिव ११.
चतुर्भुजं त्रिनयनमेकदंतं महोदरम् ११.
नीलं च तामसं ध्यानमेवं त्रिविधमुच्यते ११.
एकविंशतिदूर्वाभिर्द्वाभ्यां नाम्ना पृथक्पृथक् ११.
तथैव नामभिर्देया एकविंशतिमोदकाः ११.
गणाधिप नमस्तेस्तु उमापुत्राघनाशन ११.
एकदंतेभवक्त्रेति तथा मूषकवाहन ११.
एवमुक्त्वा सुरान्सद्यः परिष्वज्य च सादरम् ११.
तिरोधान गतः सद्यः शंभुः परमशोभनः ११.
ततः संपूज्य विधिवद्गणाध्यक्षार्च्चने रताः ११.
संतुष्टो हि गणाध्यक्षो देवानां वरदोऽभवत् ११.
तमोगुणान्विताः सर्वे ह्यसुरा नाभ्यपूजयन् ११.
पूजयित्वा शांकरिं ते पुनः क्षीरार्णवं ययुः ११.
मंथानं मंदरं कृत्वा रज्जुं कृत्वाथ वासुकिम् ११.
मथ्यमाने तदाब्धौ च निर्गतश्चंद्र अग्रतः ११.