विमुञ्चतातिथिं श्रांतं क्षुत्पिपासा समन्वितम्
सीमाशलस्थितान्वीरांस्तानादिश्य बलाधिकान्
तस्यां तपत्यां तन्वंग्यां न तापः कश्चिदप्यभूत्
विरोधीनि च सत्त्वानि मुमुचुः पूर्वमत्सरम्
योजनद्वयपर्यंतं सीमाशैलेषु संस्थितैः 1.3.1.10.
नोदभूत्कश्चन त्रासो न च दृष्टो भयोदयः
कृतार्था मुनयः सर्वे प्रशंसंतो नगात्मजाम्
सा च गौरी तपो घोरं कुर्वती च दिवानिशम्
महिषश्च महावीर्यो मृगयां कर्तुमुद्यतः
दैत्यसैन्यसमायुक्तो मृगयूथान्यनेकशः
धन्विभिर्बलिभिर्वीरैर्मृगाः केचिदनुद्रुताः
अनुव्रजन्तो दितिजा मृगांस्तान्हंतुमुद्यताः
किमत्रेति तदा पृष्टा बटुका दुष्टदानवैः
न केनचित्प्रवेष्टव्यं बलिना मुनिसेवितम्
इति तेषां वचः श्रुत्वा बलिनो दुष्टदानवाः 1.3.1.10.
मायया पक्षिरूपास्ते प्रविश्याश्रममादरात्
सा पुनर्ल्लसितारण्ये सर्वर्तुकुसुमान्विते
रूपलावण्यते तस्या निश्चयं तपसि स्थितम्
स स्मरार्तो वृद्धरूपः प्रविवेशाश्रमं तदा
वृद्धोऽपृच्छत्किमर्थं तु तपोऽस्या इति तास्तथा
परं स बलवान्कांतो न कदापि प्रसीदति
अपूर्वप्रभुणा तेन नवोपकरणं महत्
भाजनरपि साद्यस्कैर्न्यस्तः पक्वैश्च शालिभिः
अपूर्वदृष्टविभवैः कार्यं स्यादुपकारणम्
इति तासां वचः श्रुत्वा विहसन्महिषोऽभ्यधात् मदीया सकलां भूतिं शृणु बाले तपस्विनि ।। 1.3.1.10.
महिषोऽहं महावीरो दैत्येन्द्रः सुरवंदितः
अनन्यवीरसद्भावो मय्येव भुजशुष्मणा
भज मां तव भर्त्तारं प्राणिनां तपसः फलम्
सृजामि तपसा चाहं विश्वकर्माणमादितः
नवभिर्निधिभिः प्राप्तैः पार्श्वस्थैर्नित्यदा मम