ब्रह्मा विष्णुः सुरेंद्रश्च लोकपालाः सहर्षयः उत्थिताश्चैव ते सर्वे निद्रापरिगता इव॥ १०.
विस्मयेन समाविष्टा बभूवुर्जातसाध्वसाः १०.
क्व कालकूटं सुमहद्येन विद्राविता वयम् १०.
इत्यब्रुवंस्तदा दैत्यास्तूष्णींभूतास्तदा स्थिताः ब्रह्माणं च पुरस्कृत्य इदमूचुः समेधिता॥ १०.
केनेदं कारितं विष्णो न विदामोऽल्पमेधसः १०.
समाधिमगमन्सर्वेऽप्येकाग्रमनसस्तदा १०.
तदात्मनि स्थितं लिंगमपश्यन्वि बुधादयः १०.
आत्मना परमात्मानं योगिनः पर्युपासते॥ १०.
लिंगमेव परं ज्ञानं लिंगमेव परं तपः तस्माल्लिंगात्परतरं यच्च किंचिन्न विद्यते॥ १०.
एवं ब्रुवंतो हि तदा सुरासुराः सलोकपाला ऋषिभिश्च साकम् १०.
त्राहित्राहि महादेव कृपालो परमेश्वर १०.
तद्देवदेव भवतश्चरणारविंदं सेवानुबंधमहिमानमनंतरूपम् १०.
लिंगस्वरूपमध्यस्थो भगवान्भूतभावनः १०.
त्वं लिंगरूपी भगवाञ्जगतामभयप्रदः १०.
मृतास्त्राता गरात्सर्वे तस्मान्मृत्युंजय प्रभो १०.
विष्णुना संस्तुतो देवो लिंगरूपी महेश्वरः १०.
हे विष्णो हे सुराः सर्व ऋषयः श्रूयतामिदम् १०.
अविलोकयताऽऽत्मात्मना विबुधादयः १०.
एकत्वेन पृथक्त्वेन किंचिन्नैव प्रयोजनम् १०.
क्षीराब्धेर्मथनं तत्तु अमृतार्थं कथं कृतम् १०.
तस्मात्सर्वे मृत्युमुखं पतिता वै न संशयः १०.
न नमंति गणेशं च दुर्गां चैव तथाविधाम् १०.
यूयं सर्वे त्वधर्मिष्ठाः स्तब्धाः पंडितमानिनः १०.
तस्मात्कालमुखे सर्वे पतिता नात्र संशयः १०.
प्ररोचनपराः सर्वे क्षुद्राश्चेंद्रादयो वृथा १०.
कृतः प्रयत्नो हि महानमृतार्थं त्वया शठ अपि तच्च पराधीन तन्न जानासि दुर्मते॥ १०.
यैर्वदवाक्यैस्त्वं मूढ संस्तुतोऽसि तपस्विभिः १०.
विष्णो त्वं च पक्षपातान्न जानासि हिताहितम् १०.
इच्छायुक्तस्त्वमत्रैव सदा बालकचेष्टितः १०.
अन्यथा हि कृते ह्यर्थे अन्यथात्वं भविष्यति १०.