यावद्गणेशसंयुक्तो भाषमाणः सदाशिवः १०.
शिवरूपा जगद्योनिः कार्यकारणरूपिणी १०.
एका स्थिता परा शक्तिर्ब्रह्मविद्यात्मलक्षणा १०.
प्रकृत्यन्तर्गतं सर्वं जगदेतच्चराचरम् १०.
साक्षात्प्रकृत्याः संभूतो गणेशो भगवानभूत् १०.
शिवेन सह संग्रामो ह्यभूत्तस्य महात्मनः १०.
तस्य दृष्ट्वा ह्यजेयत्वं गजारूढस्य तत्तदा १०.
तदा स्तुतो महादेवः परशक्त्या परंतपः १०.
तदा वृतो महादेवो वरेण परमेण हि १०.
त्वां न जानात्ययं मूढः प्रकृत्यंशसमुद्भवः १०.
प्रहस्य भगवान्रुद्रो मायापुत्रमजीवयत् १०.
तदा गजाननो जातः प्रसादाच्छंकरस्य च १०.
आत्मज्ञानामृतेनैव नित्यतृप्तो निरामयः १०.
योगदंडार्थमुत्पाट्य स्वकीयं दशनं महत् ऋद्धिसिद्धिद्वयेनैव एकत्वेन विराजितः॥ १०.
ये ते गणाश्च विघ्नाश्च ये चान्येऽभ्यधिका भुवि १०.
तस्माद्वि लोकयामास प्रकृतिं विश्वरूपिणीम् ददर्श विमलं लिंगं प्रकृतिस्थं स्वभावतः॥ १०.
आत्मानं च गणैः साद्धं तथैव च जगत्त्रयम् १०.
मुमोह च पुनः संज्ञां प्रतिलभ्य प्रयत्नतः १०.
तदा ददर्श तत्रैव लोकसंहारकारकम् १०.
ददर्श प्रेततुल्यानि लिंगशक्त्यात्मकानि च १०.
लीयंते च विलीयंते महेशे लिंगरूपिणि १०.
शक्त्या लिंगं च संछन्नं तदा सर्वमदृश्यत १०.
शिवाभ्यां संश्रितं लोकं जगदेतच्चराचरम् १०.
तदोवाच महातेजा गणाध्यक्षो गणैः सह १०.
नमामि देवं शक्त्यान्वितं ज्ञानरूपं प्रसन्नं ज्ञानात्परं परमंज्योतिरूपम् १०.
धूमात्परमयोवह्निर्धूमवत्प्रतिभासते प्रकृत्यंतर्गतस्त्वं हि मायाव्यक्तिरितीयसे॥ १०.
एवंविधस्त्वं भगवन्स्वमायया सृजस्यथोलुंपसि पासि विश्वम् १०.
यथा पुरासीर्भगवान्महेशस्त्रैलोक्यनाथोऽसि चराचरात्मा १०.
एवं स्तुतो गणेशेन भगवान्भूतभावनः १०.
लिंगरूपेण तद्ग्रस्तं विमलं चाकरोत्तदा तत्क्षणाद्रक्षितान्येव कृपया परया युतः॥ १०.