अन्ये सुरा सुराः कुत्र भस्मीभूता लयं गताः १०.
व्यासप्रसादात्सकलं वेत्थ त्वं नापरो हि तत् १०.
इति पृष्टस्तदा सर्वैर्मुनिभिर्भावितात्मभिः १०.
यदा ब्रह्मांडमध्यस्था व्याप्ता देवा विषाग्निना तदा विज्ञापितः शंभुर्हेरंबेन महात्मना॥ १०.
हे रुद्र हे महादेव हे स्थाणो ह जगत्पते १०.
भयेन मति मोहात्त्वां नार्च्चयंति च मामपि १०.
एवमभ्यर्थितस्तेन पिनाकी वृषभध्वजः १०.
लिंगरूपोऽब्रवीच्छंभुर्निराकारो निरामयः १०.
हेरंब श्रृणु मे वाक्यं श्रद्धया परया युतः १०.
स्थितिं करोत्यहंकारः प्रलयोत्पत्तिमेव च १०.
मायाविरहितं शांतं द्वैताद्वैतपरं सदा १०.
यदि त्वं केवलो ह्यात्मा परमानन्दलक्षणः १०.
नानारूपं कथं जातं सुरासुरविलक्षणम् १०.
भूतग्रामैश्चतुर्भिश्च नानाभेदैः समन्वितैः १०.
परस्परविरोधेन ज्ञानवादेन मोहिताः १०.
ज्ञाननिष्ठाश्च ये केचित्परस्परविरोधिनः १०.
अहं गणश्च कुत्रत्याः क्व चायं वृषभः प्रभो १०.
कृताः सर्वे महाभागाः सात्त्विका राजसाश्च वै १०.
कालशक्त्या च जातानि रजःसत्त्वतमांसि च १०.
परिदृश्यमानमेतच्चानश्वरं परमार्थतः १०.
यावद्गणेशसंयुक्तो भाषमाणः सदाशिवः १०.
शिवरूपा जगद्योनिः कार्यकारणरूपिणी १०.
एका स्थिता परा शक्तिर्ब्रह्मविद्यात्मलक्षणा १०.
प्रकृत्यन्तर्गतं सर्वं जगदेतच्चराचरम् १०.
साक्षात्प्रकृत्याः संभूतो गणेशो भगवानभूत् १०.
शिवेन सह संग्रामो ह्यभूत्तस्य महात्मनः १०.
तस्य दृष्ट्वा ह्यजेयत्वं गजारूढस्य तत्तदा १०.
तदा स्तुतो महादेवः परशक्त्या परंतपः १०.
तदा वृतो महादेवो वरेण परमेण हि १०.
त्वां न जानात्ययं मूढः प्रकृत्यंशसमुद्भवः १०.