ब्रह्माणं च पुरस्कृत्य तदा देवास्त्वरान्विताः ९.
ब्रह्मादयश्चर्षिगणाश्च तदा परेशं विष्णुं पुराणपुरुषं प्रभविष्णुमीशम् ९.
तावत्प्रवृद्धं सुमहत्कालकूटं समभ्ययात् ९.
कालकूटाग्निना दग्धो विष्णुः सर्वगुहाशयः ९.
वैकुण्ठं च सुनीलं च सर्वलोकैः समावृतम् ९.
अष्टावरणसंवीतं ब्रह्मांडं ब्रह्मणा सह ९.
नोभूमिर्न जलं चाग्निर्न वायुर्न नभस्तदा शिवस्य कोपात्संजातं तदा भस्माकुलं जगत्॥ ९.
यत्त्वया कथितं ब्रह्मन्ब्रह्मांडं सचराचरम् १०.
ब्रह्मांडांतरतः किं तु रुद्रं मन्यामहे वयम् १०.
भस्मीभूतं रुद्रकोपात्कथं सृष्टिः प्रवर्तिता १०.
अन्ये सुरा सुराः कुत्र भस्मीभूता लयं गताः १०.
व्यासप्रसादात्सकलं वेत्थ त्वं नापरो हि तत् १०.
इति पृष्टस्तदा सर्वैर्मुनिभिर्भावितात्मभिः १०.
यदा ब्रह्मांडमध्यस्था व्याप्ता देवा विषाग्निना तदा विज्ञापितः शंभुर्हेरंबेन महात्मना॥ १०.
हे रुद्र हे महादेव हे स्थाणो ह जगत्पते १०.
भयेन मति मोहात्त्वां नार्च्चयंति च मामपि १०.
एवमभ्यर्थितस्तेन पिनाकी वृषभध्वजः १०.
लिंगरूपोऽब्रवीच्छंभुर्निराकारो निरामयः १०.
हेरंब श्रृणु मे वाक्यं श्रद्धया परया युतः १०.
स्थितिं करोत्यहंकारः प्रलयोत्पत्तिमेव च १०.
मायाविरहितं शांतं द्वैताद्वैतपरं सदा १०.
यदि त्वं केवलो ह्यात्मा परमानन्दलक्षणः १०.
नानारूपं कथं जातं सुरासुरविलक्षणम् १०.
भूतग्रामैश्चतुर्भिश्च नानाभेदैः समन्वितैः १०.
परस्परविरोधेन ज्ञानवादेन मोहिताः १०.
ज्ञाननिष्ठाश्च ये केचित्परस्परविरोधिनः १०.
अहं गणश्च कुत्रत्याः क्व चायं वृषभः प्रभो १०.
कृताः सर्वे महाभागाः सात्त्विका राजसाश्च वै १०.
कालशक्त्या च जातानि रजःसत्त्वतमांसि च १०.
परिदृश्यमानमेतच्चानश्वरं परमार्थतः १०.