केवलोद्यमसंवीता ममंथुः क्षीरसागरम् ९.
त्रैलोक्यदहने प्रौढं प्राप्तं हंतुं दिवौकसः ग्रसितुं सर्वभूतानां कालकूटं समभ्ययात्॥ ९.
दृष्ट्वा बृहंतं स्वकरस्थमोजसा तं सर्पराजं सह पर्वतेन ९.
तथैव सर्व ऋषयो भृग्वाद्याः शतशाम्यति ९.
सत्यलोकं गताः सर्वे भुगुणा नोदिता भृशम् देवा नास्त्यत्र संदेहः सत्यं सत्यं वदामि वः॥ ९.
भृगुणोक्तं वचः श्रुत्वा कालकूटविषार्द्दिताः ९.
तदा जाज्वल्यमानं वै कालकूटं प्रभोज्जवलम् तेषां शपितुमारेभे नारदेन निवारितः॥ ९.
अकार्यं किं कृतं देवाः कस्मात्क्षोभोयमुद्यतः ९.
ततो देवैः परिवृतो वेदोपनिषदैस्तथा ९.
ततश्चिंतान्विता देवा इदमूचुः परस्परम् ९.
ब्रह्माणं च पुरस्कृत्य तदा देवास्त्वरान्विताः ९.
ब्रह्मादयश्चर्षिगणाश्च तदा परेशं विष्णुं पुराणपुरुषं प्रभविष्णुमीशम् ९.
तावत्प्रवृद्धं सुमहत्कालकूटं समभ्ययात् ९.
कालकूटाग्निना दग्धो विष्णुः सर्वगुहाशयः ९.
वैकुण्ठं च सुनीलं च सर्वलोकैः समावृतम् ९.
अष्टावरणसंवीतं ब्रह्मांडं ब्रह्मणा सह ९.
नोभूमिर्न जलं चाग्निर्न वायुर्न नभस्तदा शिवस्य कोपात्संजातं तदा भस्माकुलं जगत्॥ ९.
यत्त्वया कथितं ब्रह्मन्ब्रह्मांडं सचराचरम् १०.
ब्रह्मांडांतरतः किं तु रुद्रं मन्यामहे वयम् १०.
भस्मीभूतं रुद्रकोपात्कथं सृष्टिः प्रवर्तिता १०.
अन्ये सुरा सुराः कुत्र भस्मीभूता लयं गताः १०.
व्यासप्रसादात्सकलं वेत्थ त्वं नापरो हि तत् १०.
इति पृष्टस्तदा सर्वैर्मुनिभिर्भावितात्मभिः १०.
यदा ब्रह्मांडमध्यस्था व्याप्ता देवा विषाग्निना तदा विज्ञापितः शंभुर्हेरंबेन महात्मना॥ १०.
हे रुद्र हे महादेव हे स्थाणो ह जगत्पते १०.
भयेन मति मोहात्त्वां नार्च्चयंति च मामपि १०.
एवमभ्यर्थितस्तेन पिनाकी वृषभध्वजः १०.
लिंगरूपोऽब्रवीच्छंभुर्निराकारो निरामयः १०.
हेरंब श्रृणु मे वाक्यं श्रद्धया परया युतः १०.
स्थितिं करोत्यहंकारः प्रलयोत्पत्तिमेव च १०.