सरत्नं वर्तुलाकारं स्थूलं चैव महाप्रभम् ९.
चंदनैः पारिजातैश्च नागपुन्नागचंपकैः ९.
महाशैलं दृष्ट्वा ते सुरसत्तमाः ९.
अद्रे सुरा वयं सर्वे विज्ञप्तुमिह चागताः ९.
एवमुक्तस्तदा शैलो दवैर्दैत्यैः स मंदरः ९.
तेन रूपेण रूपी स पर्वतो मंदराचलः ९.
तदा बलिरुवाचेदं प्रस्तावसदृशं वचः ९.
अस्माभिः सह कार्यार्थे भव त्वं मंदराचल ९.
तथेति मत्वा तद्वाक्यं देवानां कार्यसिद्धये ९.
छेदितौ च त्वया पक्षौ वज्रेण शतपर्वणा ९.
तदा देवासुराः सर्वे स्तूयमाना महाचलम् ९.
क्षीरार्णवं नेतुकामा ह्यशक्तास्ते ततोऽभवन् ९.
केचिद्भग्ना मृताः केचित्केचिन्मूर्छापरा भवन् ९.
ेवं भग्नोद्यमा जाता असुराःसुरदानवाः ९.
रक्षरक्ष महाविष्णो शरणागतवत्सल ९.
देवानां कार्यसिद्ध्यर्थं प्रादुर्भूतो हरिस्तदा ९.
लीलया पर्वतश्रेष्ठमुत्तभ्यारोपयत्क्षणात् ९.
तत उत्थाय तान्देवान्क्षीरोस्योत्तरं तटम् ९.
तदा सर्वे सुरगणाः स्वागत्य असुरैः सह ९.
मंथानं मंदरं चैव वासुकिं रज्जुमेव च ९.
क्षीराब्धेर्मथ्यमानस्य पर्वतो हि रसातलम् उद्धृतस्तत्क्षणादेव तदद्भुतमिवाभवत्॥ ९.
भ्राम्यमाणस्ततः शैलो नोदितः सुरदानवैः ९.
परमात्मा तदा विष्णुराधारो मंदरस्य च ९.
तदा सुरासुराः सर्वे ममंथुः क्षीरसागरम् ९.
पृष्ठकंठोरुजान्वंतः कमठस्य महात्मनः उभयोर्घर्षणादेव वडवाग्निः समुत्थितः॥ ९.
हलाहलं च संजातं तदॄष्ट्वा नारदेन हि ९.
न कार्यं मथनं चाब्धेर्भवद्भिरधुनाऽखिलैः तद्विस्मृतिं च वोयातं वीरभद्रेण यत्कृतम्॥ ९.
तस्माच्छिवः स्मर्यतां चाशु देवाः परः पराणामपि वा परश्च ९.
ते मथ्यमानास्त्वरिता देवाः स्वात्मार्थसाधकाः ९.
उपदेशैश्च बहुभिर्नोपदेश्याः कदाचन ९.