प्राप्तव्यानि त्वया वीर अस्माकं च त्वया बले ९.
गतानि तत्क्षणादेव सागरे पतितानि वै ९.
तेषां चोद्धरणे दैत्य रत्नानामिह सागरात् ९.
बलिः प्रवर्तितस्तेन शक्रेण सुरसूदनः ९.
तदा नभोगता वाणी मेघगंभीरनिःस्वना ९.
भवतां बलवृद्धिश्च भविष्यति न संशयः॥ ९.
मंदरं चैव मंथानं रज्जुं कुरुत वासुकिम् ९.
नभोगतां च तां वाणीं निशम्याथ तदाःसुराः ९.
पातालान्निर्गताः सर्वे तदा तेऽथ सुरासुराः ९.
दैत्याश्च कोटिसंख्याकास्तथा देवा न संशयः ९.
सरत्नं वर्तुलाकारं स्थूलं चैव महाप्रभम् ९.
चंदनैः पारिजातैश्च नागपुन्नागचंपकैः ९.
महाशैलं दृष्ट्वा ते सुरसत्तमाः ९.
अद्रे सुरा वयं सर्वे विज्ञप्तुमिह चागताः ९.
एवमुक्तस्तदा शैलो दवैर्दैत्यैः स मंदरः ९.
तेन रूपेण रूपी स पर्वतो मंदराचलः ९.
तदा बलिरुवाचेदं प्रस्तावसदृशं वचः ९.
अस्माभिः सह कार्यार्थे भव त्वं मंदराचल ९.
तथेति मत्वा तद्वाक्यं देवानां कार्यसिद्धये ९.
छेदितौ च त्वया पक्षौ वज्रेण शतपर्वणा ९.
तदा देवासुराः सर्वे स्तूयमाना महाचलम् ९.
क्षीरार्णवं नेतुकामा ह्यशक्तास्ते ततोऽभवन् ९.
केचिद्भग्ना मृताः केचित्केचिन्मूर्छापरा भवन् ९.
ेवं भग्नोद्यमा जाता असुराःसुरदानवाः ९.
रक्षरक्ष महाविष्णो शरणागतवत्सल ९.
देवानां कार्यसिद्ध्यर्थं प्रादुर्भूतो हरिस्तदा ९.
लीलया पर्वतश्रेष्ठमुत्तभ्यारोपयत्क्षणात् ९.
तत उत्थाय तान्देवान्क्षीरोस्योत्तरं तटम् ९.
तदा सर्वे सुरगणाः स्वागत्य असुरैः सह ९.
मंथानं मंदरं चैव वासुकिं रज्जुमेव च ९.