त्वमागतोसि देवेंद्र किमर्थं तन्न वेद्मयहम्॥ ९.
शक्रस्तद्वचनं श्रुत्वा ह्यश्रुपूर्णाकुलेक्षणः ९.
बले त्वं किं न जानासि कार्याकार्यविचारणाम् ९.
शरणागतं च विप्रं च रोगिणं वृद्धमेव च ९.
शरणागतशब्देन आगतस्तव सन्निधौ एवमुक्तो नारदेन तदा दैत्यपतिः स्वयम्॥ ९.
विमृश्य परया बुद्ध्या कार्याकार्यविचारणाम् लोकपालैः समेतं च तथा सुरगणैः सह॥ ९.
प्रत्ययार्थं च सत्त्वानि ह्यनेकानि व्रतानि वै ९.
एवं स समयं कृत्वा शक्रः स्वार्थपरायणः ९.
एवं निवसतस्तस्य सुतलेऽपि शतक्रतोः संस्मृत्य वचनं विष्णोर्विमृश्य च पुनःपुनः॥ ९.
एकदा तु सभामध्य आसीनो देवराट्स्वयम् ९.
प्राप्तव्यानि त्वया वीर अस्माकं च त्वया बले ९.
गतानि तत्क्षणादेव सागरे पतितानि वै ९.
तेषां चोद्धरणे दैत्य रत्नानामिह सागरात् ९.
बलिः प्रवर्तितस्तेन शक्रेण सुरसूदनः ९.
तदा नभोगता वाणी मेघगंभीरनिःस्वना ९.
भवतां बलवृद्धिश्च भविष्यति न संशयः॥ ९.
मंदरं चैव मंथानं रज्जुं कुरुत वासुकिम् ९.
नभोगतां च तां वाणीं निशम्याथ तदाःसुराः ९.
पातालान्निर्गताः सर्वे तदा तेऽथ सुरासुराः ९.
दैत्याश्च कोटिसंख्याकास्तथा देवा न संशयः ९.
सरत्नं वर्तुलाकारं स्थूलं चैव महाप्रभम् ९.
चंदनैः पारिजातैश्च नागपुन्नागचंपकैः ९.
महाशैलं दृष्ट्वा ते सुरसत्तमाः ९.
अद्रे सुरा वयं सर्वे विज्ञप्तुमिह चागताः ९.
एवमुक्तस्तदा शैलो दवैर्दैत्यैः स मंदरः ९.
तेन रूपेण रूपी स पर्वतो मंदराचलः ९.
तदा बलिरुवाचेदं प्रस्तावसदृशं वचः ९.
अस्माभिः सह कार्यार्थे भव त्वं मंदराचल ९.
तथेति मत्वा तद्वाक्यं देवानां कार्यसिद्धये ९.
छेदितौ च त्वया पक्षौ वज्रेण शतपर्वणा ९.