इन्द्रं समागतं श्रुत्वा इंद्रसेनो रुषान्वितः ९.
नारदेन तदा दैत्या बलिश्च बलिनां वरः ९.
ऋषेस्तस्यैव वचनात्त्यक्तमन्युर्बलिस्तदा ९.
इन्द्रसेनेन दृष्टोऽसौ लोकपालैः समावृतः ९.
कस्मादिहागतः शक्र सुतलं प्रति कथ्यताम्॥ तस्यैतद्वचनं श्रुत्वा स्मयमान उवाचतम्.। ९.
वयं कश्यपदायादा यूयं सर्वे तथैव च ९.
मम राज्यं क्षणेनैव नीतं दैववशात्तवया गतानि तत्क्षणादेव यत्नानीतानि वै त्वया॥ ९.
तस्माद्विमर्शः कर्तव्यः पुरुषेण विपश्चिता ९.
किं तु मे बत उक्तेन जाने न च तवाग्रतः ९.
एतच्छ्रुत्वा तु शक्रस्य वाक्यं वाक्यविदां वरः ९.
त्वमागतोसि देवेंद्र किमर्थं तन्न वेद्मयहम्॥ ९.
शक्रस्तद्वचनं श्रुत्वा ह्यश्रुपूर्णाकुलेक्षणः ९.
बले त्वं किं न जानासि कार्याकार्यविचारणाम् ९.
शरणागतं च विप्रं च रोगिणं वृद्धमेव च ९.
शरणागतशब्देन आगतस्तव सन्निधौ एवमुक्तो नारदेन तदा दैत्यपतिः स्वयम्॥ ९.
विमृश्य परया बुद्ध्या कार्याकार्यविचारणाम् लोकपालैः समेतं च तथा सुरगणैः सह॥ ९.
प्रत्ययार्थं च सत्त्वानि ह्यनेकानि व्रतानि वै ९.
एवं स समयं कृत्वा शक्रः स्वार्थपरायणः ९.
एवं निवसतस्तस्य सुतलेऽपि शतक्रतोः संस्मृत्य वचनं विष्णोर्विमृश्य च पुनःपुनः॥ ९.
एकदा तु सभामध्य आसीनो देवराट्स्वयम् ९.
प्राप्तव्यानि त्वया वीर अस्माकं च त्वया बले ९.
गतानि तत्क्षणादेव सागरे पतितानि वै ९.
तेषां चोद्धरणे दैत्य रत्नानामिह सागरात् ९.
बलिः प्रवर्तितस्तेन शक्रेण सुरसूदनः ९.
तदा नभोगता वाणी मेघगंभीरनिःस्वना ९.
भवतां बलवृद्धिश्च भविष्यति न संशयः॥ ९.
मंदरं चैव मंथानं रज्जुं कुरुत वासुकिम् ९.
नभोगतां च तां वाणीं निशम्याथ तदाःसुराः ९.
पातालान्निर्गताः सर्वे तदा तेऽथ सुरासुराः ९.
दैत्याश्च कोटिसंख्याकास्तथा देवा न संशयः ९.