गते देवगुरौ तस्मिन्विमनस्काऽभवन्सुराः ९.
गांधर्वस्या वसाने तु लब्धसंज्ञो हरिः सुरान् ९.
तदैव नारदेनोक्तः शक्रो देवाधिपस्तथा ९.
गुरोरवज्ञया राज्यं गतं ते बलसूदन ९.
एतच्छ्रुत्वा वचस्तस्य नारदस्य महात्मनः आगच्छत्त्वरया शक्रो गुरोर्गेहमतंद्रितः॥ ९.
पृष्ट्वा तारां प्रणम्यादौ क्व गतो हि महातपाः ९.
तदा चिंतान्वितो भूत्वा शक्रः स्वगृहमाव्रजत् ९.
अभवन्सर्वदुःखार्थे शक्रस्य च महात्मनः ९.
ययौ दैत्यैः परिवृतः पातालादमरावतीम् ९.
देवाः पराजिता दैत्यै राज्यं शक्रस्य तत्क्षणात् ९.
नीतं सर्वप्रयत्नेन पातालं त्वरितं गताः ९.
शक्रोऽपि निःश्रिको जातो देवैस्त्यक्तस्ततो भृशम् ९.
ऐरावतो महानागस्तथैवोच्चैःश्रवा हयः नीतानि सहसा दैत्यैर्लोभादसाधुवृत्तिभिः॥ ९.
पुण्यभांजि च तान्येव पतितानि च सागरे ९.
देवान्निर्जित्य चास्माभिरानीतानि बहूनि च ९.
बलेस्तद्वचनं श्रुत्वा उशना प्रत्युवाच तम् दीक्षितस्य न संदेहस्तस्माद्भोक्त स एव च॥ ९.
अश्वमेधं विना किंचित्स्वर्गं भोक्तं न पार्यते॥ ९.
गुरोर्वचनमाज्ञाय तूष्णींभूतो बलिस्ततः ९.
इन्द्रोपि शोच्यतां प्राप्तो जगाम परमेष्ठिनम्. ९.
शक्रस्य वचनं श्रुत्वा परमेष्ठी उवाच ह॥ ९.
संमिलित्वा सुरान्सर्वांस्त्वया साकं त्वरान्विताः ९.
तथेति गत्वा ते सर्वे शक्राद्या लोकपालकाः प्राप्योपविश्य ते सर्वे हरिं स्तोतुं प्रचक्रमुः॥ ९.
देवदेव जगान्नाथ सुरासुरनमस्कृत ९.
यज्ञोऽसि यज्ञरूपोऽसि यज्ञांगोऽसि रमापते ९.
गुरोरवज्ञया चाद्य भ्रष्टराज्यः शतक्रतुः ९.
दुकोकलज्ञया सर्वं नस्यतीति किमद्भुतम् पितरौ निंदितौ यैश्च निर्दैवात्वेन संशयः॥ ९.
अनेन यत्कृतं ब्रह्मन्सद्यस्तत्फलमागतम् ९.
विपरीतो यदा कालः पुरुषस्य भवेत्तदा ९.
तेन वै कारणेनेंद्र मदीयं वचनं कुरु ९.
एवं भगवतादिष्टः शक्रः परमबुद्धिमान् ९.