मायानिरसनात्सद्यो नश्यत्येव गुणत्रयम् ८.
तस्माल्लिङ्गार्चनं भाव्यं सर्वेषामपि देहिनाम् ८.
पुरा भवद्भिः पृष्टोऽहं लिङ्गरूपी कथं शिवः ८.
कथं गरं भक्षितवाञ्छिवो लोकमहेश्वरः ८.
एकदा तु सभामध्य आस्थितो देवराट् स्वयम् ९.
अप्सरोगणसंवीतो गंधर्वैश्च पुरस्कृतः ९.
तदा शिष्यैः परिवृतो देवराजगुरुः सुधीः ९.
तं दृष्ट्वा सहसा देवाः प्रणेमुः समुपस्थिताः ९.
नोवाच किंचिद्दुर्मेधावचो मानुपुरःसरम् ९.
शक्रं प्रमत्तं ज्ञात्वाथ मदाद्राज्यस्य दुर्मतिम् ९.
गते देवगुरौ तस्मिन्विमनस्काऽभवन्सुराः ९.
गांधर्वस्या वसाने तु लब्धसंज्ञो हरिः सुरान् ९.
तदैव नारदेनोक्तः शक्रो देवाधिपस्तथा ९.
गुरोरवज्ञया राज्यं गतं ते बलसूदन ९.
एतच्छ्रुत्वा वचस्तस्य नारदस्य महात्मनः आगच्छत्त्वरया शक्रो गुरोर्गेहमतंद्रितः॥ ९.
पृष्ट्वा तारां प्रणम्यादौ क्व गतो हि महातपाः ९.
तदा चिंतान्वितो भूत्वा शक्रः स्वगृहमाव्रजत् ९.
अभवन्सर्वदुःखार्थे शक्रस्य च महात्मनः ९.
ययौ दैत्यैः परिवृतः पातालादमरावतीम् ९.
देवाः पराजिता दैत्यै राज्यं शक्रस्य तत्क्षणात् ९.
नीतं सर्वप्रयत्नेन पातालं त्वरितं गताः ९.
शक्रोऽपि निःश्रिको जातो देवैस्त्यक्तस्ततो भृशम् ९.
ऐरावतो महानागस्तथैवोच्चैःश्रवा हयः नीतानि सहसा दैत्यैर्लोभादसाधुवृत्तिभिः॥ ९.
पुण्यभांजि च तान्येव पतितानि च सागरे ९.
देवान्निर्जित्य चास्माभिरानीतानि बहूनि च ९.
बलेस्तद्वचनं श्रुत्वा उशना प्रत्युवाच तम् दीक्षितस्य न संदेहस्तस्माद्भोक्त स एव च॥ ९.
अश्वमेधं विना किंचित्स्वर्गं भोक्तं न पार्यते॥ ९.
गुरोर्वचनमाज्ञाय तूष्णींभूतो बलिस्ततः ९.
इन्द्रोपि शोच्यतां प्राप्तो जगाम परमेष्ठिनम्. ९.
शक्रस्य वचनं श्रुत्वा परमेष्ठी उवाच ह॥ ९.