मंदुरास्वस्य रम्यासु दृश्यंते लक्षकोटयः
याम्यं महिषमानीय शकटे सोऽभ्यवाहयत्
अप्सरःसंघमखिलमात्मसेवार्थमानयत्
अनाहृतं पुनर्हर्तुं न विश्राम्यति कोपवान्
पूजयंतश्च तस्याज्ञां नान्यां वीक्षामहे गतिम् 1.3.1.10.
दुर्जयोऽयं वरो दैत्यः सर्वेषां बलिनामपि
अस्य शृंगाहतः सिंधुर्व्यावर्जितमिति ब्रुवन्
पर्वतांश्च समुत्क्षिप्य शृंगाग्रेण महोद्धतः
न शक्यमतुलं तस्य बलमन्यदुरासदम्
शंभुशक्तिः परा सेयं स्त्रीरूपेणात्र दृश्यते
न जानीमो वयं देवि किंचिच्छंभुविचेष्टितम्
इति तेषां भयार्तानामाकर्ण्य वचनं शुभम्
शरणागतसंत्राणं तपसि स्थितया मया
उपायेन समाकृष्य हनिष्यामि महासुरम्
धर्मगे धर्मभेत्तारः शलभत्वं व्रजंति हि 1.3.1.10.
जग्मुर्यथागतं सर्वे निर्भया हृष्टचेतसः
गतेषु तेषु देवेषु गौरी कमललोचना
सा देवी दिक्षु शैलेषु चतुर्ष्वरुणभूभृतः
यदा कैलासशिखरादागता शैलकन्यका
दुन्दुभिः सत्यवत्याख्या तथा चानवमी परा
विमुञ्चतातिथिं श्रांतं क्षुत्पिपासा समन्वितम्
सीमाशलस्थितान्वीरांस्तानादिश्य बलाधिकान्
तस्यां तपत्यां तन्वंग्यां न तापः कश्चिदप्यभूत्
विरोधीनि च सत्त्वानि मुमुचुः पूर्वमत्सरम्
योजनद्वयपर्यंतं सीमाशैलेषु संस्थितैः 1.3.1.10.
नोदभूत्कश्चन त्रासो न च दृष्टो भयोदयः
कृतार्था मुनयः सर्वे प्रशंसंतो नगात्मजाम्
सा च गौरी तपो घोरं कुर्वती च दिवानिशम्
महिषश्च महावीर्यो मृगयां कर्तुमुद्यतः
दैत्यसैन्यसमायुक्तो मृगयूथान्यनेकशः