अहं हि मानुषो भूत्वा ह्यज्ञानेन समावृतः ब्रह्मविद्यासहायोस्मि भवतां कार्यसिद्धये॥ ८.
जनकस्य गृहे साक्षाद्ब्रह्मविद्या जनिष्यति ८.
तपसा महता युक्तो ब्रह्मविद्यां यदेच्छति ८.
एवं संभाष्य भगवान्विष्णुः परममङ्गलः ८.
तथा ब्रह्मांशसंभूतो जाम्बवान्नृक्षकुञ्जरः ८.
यो वै चैकादशो रुद्रो हनूमान्स महाकपिः ८.
मैंदादयोऽथ कपयस्ते सर्वे सुरसत्तमाः ८.
तथैव विष्णुरुत्पन्नः कौशल्यानंदवर्द्धनः ८.
शेषोपि भक्त्या विष्णोश्च तपसाऽवातरद्भुवि॥ ८.
दोर्दण्डावपि विष्णोश्च अवतीर्णौ प्रतापिनौ ८.
मिथिलाधिपतेः कन्या या उक्ता ब्रह्मवादिभिः सीता जाता लांगलस्य इयं भूमिविकर्षणात्॥ ८.
तस्मात्सीतेति विख्याता विद्या सान्वीक्षिकी तदा ८.
जनकस्य कुले जाता विश्रुता जनकात्मजा ८.
सा दत्ता जनकेनैव विष्णवे परमात्मने॥ ८.
तयाथ विद्यया सार्द्धं देवदेवो जगत्पतिः ८.
रावणं जेतुकामो वै रामो राजीवलोचनः ८.
शेषावतारोऽपि महांस्तपः परमदुष्करम् ८.
शत्रुघ्नो भरतश्चैव तेपतुः परमं तपः॥ ८.
ततोऽसौ तपसा युक्तः सार्द्धं तैर्देवतागणैः विष्णुना घातितः शस्त्रैः शिवसारूप्यमाप्तवान्॥ ८.
सगमः स पुनः सद्यो बंधुभिः सह सुव्रताः॥ ८.
शिवप्रसादात्सकलं द्वैताद्वैतमवाप ह तत्सर्वं प्राप्नुवंतीह शिवार्चनरता नराः॥ ८.
येऽर्चयंति शिवं नित्यं लिंगरूपिणमेव च तं शिवं प्राप्नुवंत्येव सर्वदुःखोपनाशनम्॥ ८.
पशवोऽपि परं याताः किं पुनर्मानुषादयः॥ ८.
ये द्विजा ब्रह्मचर्येण तपः परममास्थिताः ८.
ज्योतिष्टोमो वाजपेयो ह्यतिरात्रादयो ह्यमी ८.
तत्र स्वर्गसुखं भुक्त्वा पुण्यक्षयकरं महत् ८.
पतितानां च संसारे दैवाद्बुद्धिः प्रजायते ८.
यथा सत्त्वं संभवति सत्त्वयुक्तभवं नराः ८.
एवं संसारचक्रेऽस्मिन्भ्रमिता बहवो जनाः ८.
शिवध्यानपराणां च नराणां यतचेतसाम् ८.