यावद्भावा ह्यनेकाश्च इंद्रियार्थास्तथैव च ८.
जितेंद्रियाणां शांतानां तन्निष्ठानां महात्मनाम् ८.
तदा ब्रह्मादयो देवा ऋषयश्च विपश्चितः तत्सर्वं कथयान्यं च रावणस्य तपोबलम्॥ ८.
कुबेरोऽधिकृतस्तेन शंकरेण महात्मना ८.
आगच्छत्त्वरया युक्तः समारुह्य स्ववाहनम् ८.
त्वया दृष्टोऽथ वात्रासौ कथ्यतामविलंबितम् ८.
तदोवाच महातेजा रावणो लोकरावणः ८.
शिक्षापयितुमारब्धो मैवं कार्यमिति प्रभो तथा त्वं भव रे मूढ मा मूढत्वमुपार्जय॥ ८.
अहं मूढः कृतस्तेन कुबेरेण महात्मना ८.
कुबेरः स हि नंदिन्किमागतस्तव मंदिरम् ८.
रावणस्य वचः श्रुत्वा ह्यवोचं त्वरितोऽप्यहम् ८.
उभयोः समनां ज्ञात्वा वृथा जल्पसि दुर्मते ८.
यथा भवद्भिः पृष्टोऽहं वदनार्थे महात्मभिः शिवेन दत्तं सालूप्यं न गृहीतं मया तदा॥ ८.
याचितं च मया शंभोर्वदनं वानरस्य च ८.
निराभिमानिनो ये च निर्दभा निष्परिग्रहाः ८.
तथावदन्मया सार्द्धं रावणस्तपसो बलात् ८.
उपहासकरं वाक्यं पौलस्त्यस्य तदा सुराः ८.
ईदृशान्येव वक्त्राणि येषां वै संभवंति हि मां पुरस्कृत्य सहसा हनिष्यति न संशयः॥ ८.
एवं शप्तो मया ब्रह्मन्रावणो लोकरावणः ८.
पीठिकारूपसंस्थेन विना तेन सुरोत्तमाः ८.
देवदेवो महादेवो विष्णुरूपी महेश्वरः ८.
अहं हि सर्वदेवानां पुरोवर्ती भवाम्यतः वैकुंठमागता गीर्भिर्विष्णुं स्तोतुं प्रचक्रिरे॥ ८.
नमो भगवते तुभ्यं देवदेव जगत्पते ८.
एतल्लिंगं त्वया विष्णो धृतं वै पिण्डिरूपिणा ८.
तथा कमठरूपेण धृतो वै मंदराचलः ८.
हिरण्यकशिपुर्दैत्यो हतो नृहरिरूपिणा ८.
भृगूणामन्वये भूत्वा कृतवीर्यात्मजो हतः ८.
रावमस्य भयादस्मात्त्रातुं भूयोर्हसि त्वरम्॥ ८.
एवं संप्रार्थितो देवैर्भगवान्भूतभावनः ८.
हे देवाः श्रूयतां वाक्यं प्रस्तावसदृशं महत् अवतारान्प्रकुर्वन्तु वानरीं तनुमाश्रिताः॥ ८.