साक्षाल्लिंगार्चनं येन कृतमस्ति महात्मना तत्कृतं रावणेनैव सर्वेषां दुरतिक्रमम्॥ ८.
वैराग्यं परमास्थाय औदार्यं च ततोऽधिकम् ८.
संवत्सरसहस्राच्च स्वशिरो हि महाभुजः ८.
रावणस्य कबंधं च तदग्रे च समीपतः ८.
लिंगे लयं समाधाय कयापि कलया स्थितम् कृतं नैवान्यमुनिना तथा चैवापरेणहि॥ ८.
एवं शिरांस्येव बहूनि तेन समर्पितान्येव शिवार्चनार्थे ८.
मया विनासुरस्तत्र पिंडीभूतेन वै पुरा ८.
रावणेन तदा चोक्तः शिवः परममंगलः ८.
न कामयेऽन्यं च वरमाश्रये त्वत्पदांबुजम् ८.
तदा सदाशिवेनोक्तो रावणो लोकरावणः ८.
एवं प्राप्तं शिवात्सर्वं रावणेन सुरेश्वराः ८.
विजेतव्यो रावणोयमिति मे मनसि स्थितम् ८.
चिंतामापेदिरे सर्वे चिरं ते विषयान्विताः ८.
इंद्रो हि जारभावाच्च चंद्रो हि गुरुतल्पगः ८.
पावकः सर्वभक्षित्वात्तथान्ये देवतागणाः ८.
शैलादो हि महातेजा गणश्रेष्ठः पुरातनः ८.
शिवप्रियो रुद्ररूपी महात्मा ह्युवाच सर्वानथ चेंद्रमुख्यान् ८.
नंदिना च तदा सर्वे पृष्टाः प्रोचुस्त्वरान्विताः॥ ८.
रावणेन वयं सर्वे निर्जिता मुनिभिः सह ८.
प्रहस्य भगवान्नंदी ब्रह्माणं वै ह्युवाच ह द्रष्टव्यो हृदि मध्यस्थः सोऽद्य द्रष्टुं न पार्यते॥ ८.
यावद्भावा ह्यनेकाश्च इंद्रियार्थास्तथैव च ८.
जितेंद्रियाणां शांतानां तन्निष्ठानां महात्मनाम् ८.
तदा ब्रह्मादयो देवा ऋषयश्च विपश्चितः तत्सर्वं कथयान्यं च रावणस्य तपोबलम्॥ ८.
कुबेरोऽधिकृतस्तेन शंकरेण महात्मना ८.
आगच्छत्त्वरया युक्तः समारुह्य स्ववाहनम् ८.
त्वया दृष्टोऽथ वात्रासौ कथ्यतामविलंबितम् ८.
तदोवाच महातेजा रावणो लोकरावणः ८.
शिक्षापयितुमारब्धो मैवं कार्यमिति प्रभो तथा त्वं भव रे मूढ मा मूढत्वमुपार्जय॥ ८.
अहं मूढः कृतस्तेन कुबेरेण महात्मना ८.
कुबेरः स हि नंदिन्किमागतस्तव मंदिरम् ८.