अजेयत्वं च संग्रामे द्वैगुण्यं शिरसामपि ८.
देवानृषीन्पितॄंश्चैव निर्जित्य तपसा विभुः ८.
राजा त्रिकूटाधिपतिर्महेशेन कृतो महान् ८.
तपस्विनां परीक्षायै यदृषीणां विहिंसनम् ८.
अजेयो हि महाञ्जातो रावणो लोकरावणः ८.
लोकपाला जितास्तेन प्रतापेन तपस्विना ८.
अमृतांशुकरो भूत्वा जितो येन शशी द्विजाः ८.
ऐश्वर्येण जितश्चेन्द्रो विष्णुः सर्वगतस्तथा ८.
तदा सर्वे सुरगणा ब्रह्मविष्णुपुरोगमाः ८.
पीडिताः स्मो रावणेन तपसा दुष्करेण वै ८.
साक्षाल्लिंगार्चनं येन कृतमस्ति महात्मना तत्कृतं रावणेनैव सर्वेषां दुरतिक्रमम्॥ ८.
वैराग्यं परमास्थाय औदार्यं च ततोऽधिकम् ८.
संवत्सरसहस्राच्च स्वशिरो हि महाभुजः ८.
रावणस्य कबंधं च तदग्रे च समीपतः ८.
लिंगे लयं समाधाय कयापि कलया स्थितम् कृतं नैवान्यमुनिना तथा चैवापरेणहि॥ ८.
एवं शिरांस्येव बहूनि तेन समर्पितान्येव शिवार्चनार्थे ८.
मया विनासुरस्तत्र पिंडीभूतेन वै पुरा ८.
रावणेन तदा चोक्तः शिवः परममंगलः ८.
न कामयेऽन्यं च वरमाश्रये त्वत्पदांबुजम् ८.
तदा सदाशिवेनोक्तो रावणो लोकरावणः ८.
एवं प्राप्तं शिवात्सर्वं रावणेन सुरेश्वराः ८.
विजेतव्यो रावणोयमिति मे मनसि स्थितम् ८.
चिंतामापेदिरे सर्वे चिरं ते विषयान्विताः ८.
इंद्रो हि जारभावाच्च चंद्रो हि गुरुतल्पगः ८.
पावकः सर्वभक्षित्वात्तथान्ये देवतागणाः ८.
शैलादो हि महातेजा गणश्रेष्ठः पुरातनः ८.
शिवप्रियो रुद्ररूपी महात्मा ह्युवाच सर्वानथ चेंद्रमुख्यान् ८.
नंदिना च तदा सर्वे पृष्टाः प्रोचुस्त्वरान्विताः॥ ८.
रावणेन वयं सर्वे निर्जिता मुनिभिः सह ८.
प्रहस्य भगवान्नंदी ब्रह्माणं वै ह्युवाच ह द्रष्टव्यो हृदि मध्यस्थः सोऽद्य द्रष्टुं न पार्यते॥ ८.