नो वा तत्कथ्यतां शीघ्रं याथातथ्येन दुर्मते ८.
तैर्मुक्तस्तेन वाक्येन गतास्ते कितवादयः ८.
शिरोधिरुह्य शम्भोश्च घण्टामादातुमुद्यतः ८.
अनेन यत्कृतं चाद्य सर्वेषामधिकं भुवि ८.
इति प्रोक्त्वान यामास वीरभद्रादिभिर्गणैः ८.
सर्वैर्डमरुनादेन नादितं भुवनत्रयम् लिंगस्य मस्तकात्सद्यः पलायनपरोऽभवत्॥ ८.
पलायमानं तं दृष्ट्वा वीरभद्रः समाह्वयत्॥ ८.
कस्माद्विभेपि रे मन्द देवदेवो महेस्वरः ८.
इत्युक्त्वा तं विमाने च कृत्वा कैलासमाययौ ८.
तस्माद्भाव्या शिवे भक्तिः सर्वेषामपि देहिनाम् ८.
ये तार्किकास्तर्कपरास्तथ मीमांसकाश्च ये ८.
एकवाक्यं न कुर्वंति शिवार्चनबहिष्कृताः ८.
तथा किं बहुनोक्तेन सर्वेऽपि स्थिरजंगमाः ८.
पिण्डीयुक्तं यथा लिंगं स्थापितं च यथाऽभवत् ८.
शिवशक्तियुतं सर्वं जगदेतच्चराचरम् ८.
धर्ममात्यंतिकं तुच्छं नश्वरं क्षणभंगुरम् ८.
पीठिका विष्णुरूपं स्याल्लिंगरूपी महेश्वरः ८.
ब्रह्मा मणिमयं लिंगं पूजयत्यनिशं शुभम् ८.
भानुस्ताम्रमयं लिंगं पूजयत्यनिशं शुभम् ८.
यमो नीलमयं लिंगं राजतं नैर्ऋतस्तथा ८.
एवं ते लिंगिताः सर्वे लोकपालाः सवासवाः ८.
दैत्यानां वैष्णवाः केचित्प्रह्लादप्रमुखा द्विजाः ८.
बलिश्च नमुचिश्चैव हिरण्यकशिपुस्तथा ८.
एते चान्ये च बहवः शिष्याः शुक्रस्य धीमतः ८.
राक्षसा एव ते सर्वे शिवपूजान्विताः सदा ८.
विद्युज्जिह्वस्तीक्ष्णदंष्ट्रो धूम्राक्षो भीमविक्रमः ८.
विद्युत्कैशस्तडिज्जिह्वो रावणश्च महाबलः ८.
एते हि राक्षसाः श्रेष्ठा शिवार्चनरताः सदा ८.
रावणेन तपस्तप्तं सर्वेषामपि दुःखहम् ८.
वरान्प्रायच्छत तदा सर्वेषामपि दुर्लभान् ८.