त्वंहि विश्वसृजां स्रष्टा त्वं हि देवो जगत्पतिः ७.
त्राह्यस्माकं महादेव देवदेव नमोऽस्तु ते ७.
ऋषयः स्तोतुकामास्ते महेश्वरमकल्मषम् ७.
अज्ञानिनो वयं कामान्न विंदामोऽस्य संस्थितिम् ७.
त्वमेव माता च पिता त्वमेव त्वमेव बंधुश्च सखा त्वमे ७.
त्वमात्मा सर्वभूतानामेको ज्योतिरिवैधसाम् ७.
यस्माच्च संभवत्येतत्तस्माच्छंभुरिति प्रभुः॥ ७.
त्वत्पादपंकजं प्राप्ता वयं सर्वे सुरादयः ७.
तस्माच्च कृपया शंभो पाह्यस्माञ्जगतः पते॥ ७.
श्रृणुध्वं तु वचो मेऽद्य क्रियतां च त्वरान्वितैः ७.
तस्य तद्वचनं श्रुत्वा शंकरस्य महात्मनः ७.
विद्याधराः सुरगणा ऋषयश्च सर्वे त्रातास्त्वयाद्य सकलाजगदेकबंधो ७.
प्रहस्य भगवन्विष्णुरुवाचेदं वचस्तदा ७.
अद्यैव भयमुत्पन्नं लिंगादस्माच्चिरंतनम् ७.
अच्युतेनैवमुक्तास्ते देवा श्चिंतान्विताभवन् ७.
एतल्लिंगं संवृणुष्व पूजनाय जनार्दन तथेति मत्वा बगवान्वीरभद्रोऽभ्यपूजयत्॥ ७.
ब्रह्मादिभः सुरगणैः सहितैस्तदानीं संपूजितः शिवविधानरतो महात्मा ७.
लिंगस्यार्चनयुक्तोऽसौ वीरभद्रोऽभवत्तदा ७.
उद्भाति स्थितिमाप्नोति तथा विलयमेति च ७.
ब्रह्माण्डागोलकैर्व्याप्तं तथा रुद्राक्षभूषितम् ७.
तदा सर्वेऽथ विबुधा ऋषो वै महाप्रभाः ७.
अणोरणीयांस्त्वं देव तथा त्वं महतो महान् ७.
तदानीमेव सर्वेण लिंगं च बहुशः कृतम् ७.
अमरावत्यां सुप्रतिष्ठममरेश्वरसंज्ञकम् ७.
नैर्ऋतेश्वरं च नैर्ऋत्यां वायव्यां पावनेश्वरम् ७.
ओंकारं नर्मदायां च महाकालं तथैव च ७.
त्रियम्बकं ब्रह्मगिरौ कलौ भद्रेश्वरं तथा ७.
सौराष्ट्रे च तथा लिंगं सोमेश्वरमिति स्मृतम् कान्त्यामल्लालनाथं च सिंहनाथं च सिंगले॥ ७.
विरूपाक्षं तथा लिंगं कोटिशङ्करमेव च ७.
भोगेश्वरं च पाताले हाटकेश्वरमेव च स्थापितानि तदा देवैर्विश्वोपकृतिहेतवे॥ ७.