तदा नभो गता वाणी ब्रह्मणं च शशाप वै ६.
भृगुणा ऋषिभिः साकं तथैव च पुरोधसा ६.
ऋषयोऽपि च धर्मिष्ठास्तत्त्ववाक्यबहिष्कृताः ६.
याचकाश्चावदान्याश्च नित्यं स्वज्ञानघातकाः ६.
एवं शप्ताश्च मुनयो ब्रह्माद्या देवतास्तथा ६.
तदा च ते सुराः सर्व ऋषयोपि भयान्विताः ७.
त्वं लिंगरूपी तु महाप्रभावो वेदांतवेद्योसि महात्मरूपि ७.
त्वं साक्षी सर्वलोकानां हर्ता त्वं च विचक्षणः ७.
त्वया लिंगस्वरूपेण व्याप्तमेतज्जगत्त्रयम् ७.
अहं सुराऽसुराः सर्वे यक्षगंधर्वराक्षसाः ७.
त्वंहि विश्वसृजां स्रष्टा त्वं हि देवो जगत्पतिः ७.
त्राह्यस्माकं महादेव देवदेव नमोऽस्तु ते ७.
ऋषयः स्तोतुकामास्ते महेश्वरमकल्मषम् ७.
अज्ञानिनो वयं कामान्न विंदामोऽस्य संस्थितिम् ७.
त्वमेव माता च पिता त्वमेव त्वमेव बंधुश्च सखा त्वमे ७.
त्वमात्मा सर्वभूतानामेको ज्योतिरिवैधसाम् ७.
यस्माच्च संभवत्येतत्तस्माच्छंभुरिति प्रभुः॥ ७.
त्वत्पादपंकजं प्राप्ता वयं सर्वे सुरादयः ७.
तस्माच्च कृपया शंभो पाह्यस्माञ्जगतः पते॥ ७.
श्रृणुध्वं तु वचो मेऽद्य क्रियतां च त्वरान्वितैः ७.
तस्य तद्वचनं श्रुत्वा शंकरस्य महात्मनः ७.
विद्याधराः सुरगणा ऋषयश्च सर्वे त्रातास्त्वयाद्य सकलाजगदेकबंधो ७.
प्रहस्य भगवन्विष्णुरुवाचेदं वचस्तदा ७.
अद्यैव भयमुत्पन्नं लिंगादस्माच्चिरंतनम् ७.
अच्युतेनैवमुक्तास्ते देवा श्चिंतान्विताभवन् ७.
एतल्लिंगं संवृणुष्व पूजनाय जनार्दन तथेति मत्वा बगवान्वीरभद्रोऽभ्यपूजयत्॥ ७.
ब्रह्मादिभः सुरगणैः सहितैस्तदानीं संपूजितः शिवविधानरतो महात्मा ७.
लिंगस्यार्चनयुक्तोऽसौ वीरभद्रोऽभवत्तदा ७.
उद्भाति स्थितिमाप्नोति तथा विलयमेति च ७.
ब्रह्माण्डागोलकैर्व्याप्तं तथा रुद्राक्षभूषितम् ७.