श्रुत्वा तु तौ महाभागौ वैकुंठकमलोद्भवौ ६.
स्वर्गं गतस्तदा ब्रह्मा अवलोकनतत्परः ६.
तथा गतेन मार्गेण प्रत्यावृत्त्याब्जसंभवः ६.
स्थिता या केतकीच्छायामुवाच मधुरं वचः उवाच प्रहसन्वाक्यं छलोक्त्या सुरभिं प्रति॥ ६.
लिंगं महाद्भुतं दृष्टं येनव्याप्तं जगत्त्रयम् ६.
न दृष्टं मस्तकं तस्य व्यापकस्य महात्मनः ६.
लिंगस्य मस्तकं दृष्टं देवानां च मृषा वदेः ६.
ते संति साक्षिमो देवा अस्मिन्नर्थे वदत्वरम् ६.
तद्वचः शिरसा गृह्य ब्रह्मणः परमेष्ठिनः ६.
एवं समागतो ब्रह्म देवाग्रे समुवाच ह॥ ६.
लिंगस्य मस्तकं देवा दृष्टवानहमद्भुतम् ६.
विशालं विमलं श्लक्ष्णं प्रसन्नतरमद्भुतम् ६.
एतादृशं मया दृष्टं न दृष्टं तद्विनाक्वचित् ६.
एवं विस्मयपूर्णास्ते इंद्राद्या देवतागणाः ६.
पातालादागतः सद्यः सर्वेषामवदत्त्वरम् ६.
विस्मयो मे महाञ्जातः पातालात्परतश्चरन् ६.
तथा गतस्तलं चैव पातालं च तथातलम् ६.
शून्यादपि च शून्यं च तत्सर्वं सुनिरीक्षितम् ६.
लिंगरूपी महादेवो येनेदं धार्यते जगत् ६.
श्रुत्वा सुराश्च ऋषयस्तस्य वाक्यमपूजयन् ६.
दृष्टं हि चेत्त्वया ब्रह्मन्मस्तकं परमार्थतः ६.
आकर्ण्य वचनं विष्णोर्ब्रह्मा लोकपितामहः ६.
ते देवा मम साक्षित्वे जानीहि परमार्थतः ६.
आह्वानं चक्रिरे तस्याः सुरभ्याश्च तया सह ६.
इंद्राद्यैश्च तदा देवैरुक्ता च सुरभी ततः ६.
लिंगस्य मस्तको देवाः केतकीदलपूजितः ६.
सुरभ्या चैव यत्प्रोक्तं केतक्या च तथा सुराः ६.
तदा सर्वेऽथ विबुधाः सेंद्रा वै विष्णुना सह ६.
मुखेनोक्तं त्वयाद्यैवमनृतं च तथा शुभे ६.
सुगंधकेतकी चापि अयोग्या त्वं शिवार्चने ६.