क्षणात्तस्य पुरोभागे वसतां प्राणिनामिह
अप्रमेयगुणाधारमपेक्षितवरप्रदम्
लब्धकामा पुनः शम्भुमाश्रयिष्यसि सुव्रते 1.3.1.9.
न केवलं तव तपः स्ववांछितफलप्रदम्
कारणांतरमाशंक्य तपः कुर्वंति देवताः
वयं च सहसंवासास्तव व्रतनिरीक्षणात्
इति तस्य मुनेर्वाक्यमर्थगर्भं निशम्य सा
तपः किमन्यत्कर्तव्यं लब्धं तव तु दर्शनम्
अहो भूमेस्तु वैचित्र्यं यतो दृष्टा दिवोऽधिका
शिवः प्रसादसिद्धो मे दर्शितं स्थानमात्मनः
अविनाभूतमैक्यं मे देवेन भवतात्सदा
इति गौतमसंनिधौ तदानीं कृतसंवित्तप आदरेण कर्तुम्
सुकुमारतनुः सरोरुहाक्षी घनतुंगस्तनकल्पितोत्तरीया 1.3.1.9.
नियमैर्बहुभिस्तपोविशेषैः क्रतुषु प्राप्तविचित्रयोगबंधैः
तपसा विविधेनतप्यमाना न कदाचित्परिखेदमाप तन्वी
नत्वा गौरीं तपस्यंतीं जग्मुः शरणमाकुलाः
अथ तानभयं देहि देवीति भयविह्वलान्
ततो विज्ञापयामासुर्दैत्येंद्राद्भयमात्मनाम्
ऐरावतमुखान्सर्वान्दिङ्नागान्निजमंदिरे
आवसयन्विनोदार्थमंगनाभिः सहागतान्
मंदुरास्वस्य रम्यासु दृश्यंते लक्षकोटयः
याम्यं महिषमानीय शकटे सोऽभ्यवाहयत्
अप्सरःसंघमखिलमात्मसेवार्थमानयत्
अनाहृतं पुनर्हर्तुं न विश्राम्यति कोपवान्
पूजयंतश्च तस्याज्ञां नान्यां वीक्षामहे गतिम् 1.3.1.10.
दुर्जयोऽयं वरो दैत्यः सर्वेषां बलिनामपि
अस्य शृंगाहतः सिंधुर्व्यावर्जितमिति ब्रुवन्
पर्वतांश्च समुत्क्षिप्य शृंगाग्रेण महोद्धतः
न शक्यमतुलं तस्य बलमन्यदुरासदम्
शंभुशक्तिः परा सेयं स्त्रीरूपेणात्र दृश्यते