अणोरणीयान्महतो मही यान्महानुभावो भुवनाधिपो महान् ६.
मध्याह्न ऋषयो विप्रास्तीर्थं जग्मुः स्वकाश्रमात् ६.
विलोकयंत्यः शंभुं तमाचख्युश्च परस्परम् ६.
अस्मै भिक्षां प्रयच्छामो वयं च सखिभिः सह ६.
भिक्षान्नं विविधं श्लक्ष्णं सोपचारं च शक्तितः ६.
काचित्प्रियतमं शंभुं बभाषे विस्मयान्विता ६.
ऋषीणामाश्रमं शुद्धं किमर्थं नो निषीदसि ६.
ईश्वरोहं सुकेशांते पावनं प्राप्तवानिमम् ६.
ईश्वरोऽसि महाभाग कैलासपतिरेव च ६.
एवमुक्तस्तया शंभुः पुनस्तामब्रवीद्वचः ६.
भिक्षाटनार्थं सुश्रोणि संकल्परहितः सदा न रोचते विशालाक्षि सत्यं प्रतिवदामि ते॥ ६.
तस्योक्तं वचनं श्रुत्वा उवाच कमलेक्षणा ६.
तास्स्त्रियो वर्जिताः शंभो त्वादृशेन विपश्चिता॥ ६.
इति च प्रमदाः सर्वा मिलिता यत्र शंकरः ६.
अन्नैश्चतुर्विधैः षड्भी रसैश्च परिपूरितम् तदा सर्वा विप्रपत्न्यो ह्यन्गच्छन्मुदान्विताः॥ ६.
गृहकार्यं परित्यज्य चेरुस्तद्गतमानसाः ६.
यावदाश्रममभ्येत्य तावच्छून्यं व्यलोकयन् ६.
न विदामोऽथ वै सर्वाः केन नष्टेन चाहृताः ६.
समपश्यंस्ततः सर्वे शिवस्यानुगताश्च ताः ६.
शिवस्याथाग्रतो भूत्वा ऊचुः सर्वे त्वरान्विताः परदारापहर्त्तासि त्वमृषीणां न संशयः॥ ६.
एवं क्षिप्तः शिवो मौनी गच्छमानोऽपि पर्वतम् यस्मात्कलत्रहर्ता त्वं तस्मात्षंढो भव त्वरम्॥ ६.
एवं शप्तः स मुनिभिर्लिंगं तस्यापतद्भुवि ६.
आवृत्य सप्त पातालान्क्षणाल्लिंगमदोर्ध्वतः ६.
स्वर्गाः समावृताः सर्वे स्वर्गातीतमथाभवत् ६.
न च वायुर्न वाकाशं नाहंकारो न वा महत् ६.
नासीद्द्ववैतविभागं च सर्वं लीनं च तत्क्षणात् ६.
लयनाल्लिंगमित्येवं प्रवदंति मनीषिणः ६.
ब्रह्मेंद्रविष्णुवाय्यग्निलोकपालाः सपन्नगाः ६.
किमायामं च विस्तारं क्व चांतः क्व च पीठिका ६.
अस्य मूलं त्वया विष्णो पद्मोद्भव च मस्तकम् ६.