तपोवनं यत्र शिवः स्थितः प्रमथसंवृतः ५.
उवाच प्रश्रितो वाक्यं स नंदी विस्मयान्वितः ५.
इहानीतस्त्वया शंभुस्त्वं भक्तोसि परंतप ५.
तच्छ्रुत्वा वचनं तस्य किरातस्त्वरयान्वितः ५.
प्रहस्य भगवान्रुद्रः किरातं वाक्यमब्रवीत् ५.
विज्ञप्तोऽसौ किरातेन शंकरो लोकशंकरः ५.
प्रत्यहं रत्नमाणिक्यैः पुष्पैश्चोच्चावचैरपि ५.
तस्माज्जानीहि मन्मित्रं नंदिनं भक्तवत्सल॥ ५.
न जानामि महाभाग नंदिनं वैश्यचर्चितम् ५.
उपाधिरहिता ये च येऽपि चैव मनस्विनः ५.
तव भक्तो ह्यहं तात स च मे प्रियकृत्तरः ५.
ततो विमानानि बहूनि तत्र समागतान्येव महाप्रभाणि ५.
कैलासं पर्वतं प्राप्तौ विमानैर्वेगवत्तरैः ५.
नीराजितौ गिरिजया शिवेन सहितौ तदा ५.
यथा त्वं हि महादेव तथा चैतौ न संशयः ५.
मया त्वमेक एवासीः सेवितो वै न संशयः ५.
सद्यः पराङ्मुखौ भूत्वा शंकरस्य च पश्यतः ५.
तव द्वारि स्थितौ नित्यं भाववस्ते नमोनमः॥ ५.
तयोर्भावं स भगवान्विदित्वा प्रहसन्भवः ५.
तदा प्रभृति तावेतौ द्वारपालौ बभूवतुः ५.
एको नंदी महाकालो द्वावेतौ शिववल्लभौ ५.
एकांगुलिं समुद्धृत्य महादेवोभ्यभाषत ५.
एवं संज्ञान्वितौ द्वारि तिष्ठतस्तौ महात्मनः ५.
शैलादेन पुरा प्रोक्तं शिवधर्ममनंतकम् ५.
ये पापिनोऽप्यधर्मिष्ठा अंधा मूकाश्च पंगवः ५.
यादृशास्तादृशाश्चान्ये शिवभक्तिपुरस्कृताः ५.
लिंगं सिकतामयं ये पूजयंति विपश्चितः ५.
लिंगे प्रतिष्ठा च कथं शिवं हित्वा प्रवर्तिता ६.
यदा दारुवने शंभुर्भिक्षार्थं प्राचरत्प्रभुः॥ ६.
दिगंबरो मुक्तजटाकलापो वेदांतवेद्यो भुवनैकभर्ता ६.