आयातो हि महाकालस्तथारूपो महाबलः ५.
तं दृष्ट्वा भयवित्रस्तो नन्दी स विललाप ह ५.
किरातेन कृतं तत्र यथापूर्वमविस्खलम् ५.
स्नपनं तस्य कृत्वा च ततो गंडूषवारिणा ५.
दण्डवत्पतितो भूमावुत्थाय स्वगृहं गतः ५.
पुरोधसा सह तदा नंदीव्याकुलचेतसा ५.
निवेद्य तेषु तत्सर्वं किरातेन च यत्कृतम् ५.
संप्रधार्य ततः सर्वे मिलित्वा धर्मशास्त्रतः ५.
इदं विघ्नं समुत्पन्नं दुर्निवार्यं सुरैरपि ५.
तथेति मत्वासौ नंदी शिवस्योत्पाटनं तदा ५.
सुवर्णपीठिकां कृत्वा नवरत्नसुशोभिताम् ५.
अथापरे द्युरायातः किरातः शिवमंदिरम् ५.
मौनं विहाय सहसा ह्याक्रोशन्निदमब्रवीत् ५.
न दृष्टोसि मया त्वं हि त्यजाम्यद्य कलेवरम् ५.
हे रुद्र हे महादेव दर्शयात्मानमात्मना॥ ५.
एवं साक्षेपमधुरैर्वाक्यैः क्षिप्तः सदाशिवः ५.
विभेदाशु ततो बाहूनास्फोट्यैव रुषाब्रवीत् ५.
इति क्षिप्त्वा ततोंत्राणि मांसमुत्कृत्य सर्वतः ५.
स्वस्थं च हृदयं कृत्वा सस्नौ तत्सरसि ध्रुवम् ५.
पूजयित्वा यथान्यायं दंडवत्पतितो भुवि॥ ५.
ध्यानस्थितस्ततस्तत्र किरातः शिवसंनिधौ ५.
कर्पूरगौरो द्युतिमान्कपर्दी चंद्रशेखरः ५.
भोभो वीर महाप्राज्ञ मद्भक्तोसि महामते ५.
एवमुक्तः स रुद्रेण महाकालो मुदान्वितः ५.
ततो रुद्रं बभाषे स वरं सम्प्रार्थयाम्यहम् ५.
एतद्बुद्धात्मनो भक्तिं देहि जन्मनिजन्मनि ५.
त्वं गुरुस्त्वं महामंत्रो मंत्रवेद्योऽसि सर्वदा ५.
निष्कामं वाक्यमाकर्ण्य किरातस्य तदा भवः ५.
तदा डमरुनादेन नादितं भुवनत्रयम् ५.
तदा दुंदुभयो नेदुः पटहाश्च सहस्रशः ५.