उदकं वीक्षमाणोऽसौ तृषया पीडितो भृशम् ५.
तीरे संस्थाप्य दुष्टात्मा तत्सर्वं मृगयादिकम् ५.
शिवालयं ददर्शाग्रे अनेकाश्चर्यमंडितम् ५.
तथा लिंगं समालक्ष्य यदा पूजां समाहरत् ५.
स्नपनं तस्य लिंगस्य कृतं गंडूषवारिणा ५.
द्वितीयेन करेँणैव मृगमांसं समर्पयत् ५.
अद्यप्रभृति पूजां वै करिष्यामि प्रयत्नतः ५.
एवं नैयमिको भूत्वा किरातो गृहमागतः ५.
चिंतायुक्तोऽभवन्नंदी जातं किं छिद्रमद्य मे उपस्थितानि तान्येव मम भाग्यविपर्ययात्॥ ५.
एवं विमृश्य सुचिरं प्रक्षाल्य शिवमंदिरम् ५.
ततो नंदिनमागत्य पुरोधा गतमानसम् ५.
पुरोहितं प्रति तदा नन्दी वचनमब्रवीत्॥ ५.
अद्य दृष्टं मया विप्र अमेध्यं शिवसंनिधौ ५.
ततः पुरोधा वचनं नन्दिनं चाब्रवीत्तदा सोऽपि मूढो न संदेहः कार्याकार्येषु मंदधीः॥ ५.
तस्माच्चिंता न कर्तव्या त्वया अणुरपि प्रभो ५.
निरीक्षणार्थं दुष्टस्य तत्कार्यं विदधाम्यहम् ५.
आस्थितः स्वगृहे नक्तं दूयमानेन चेतसा ५.
गतः शिवालयं नन्दी समं तेन महात्मना ५.
सम्यक्प्रपूजनं कृत्वा नानारत्नपरिच्छदम् ५.
अनेकस्तुतिभिः स्तुत्वा गिरीशं ब्राह्मणैः सह ५.
आयातो हि महाकालस्तथारूपो महाबलः ५.
तं दृष्ट्वा भयवित्रस्तो नन्दी स विललाप ह ५.
किरातेन कृतं तत्र यथापूर्वमविस्खलम् ५.
स्नपनं तस्य कृत्वा च ततो गंडूषवारिणा ५.
दण्डवत्पतितो भूमावुत्थाय स्वगृहं गतः ५.
पुरोधसा सह तदा नंदीव्याकुलचेतसा ५.
निवेद्य तेषु तत्सर्वं किरातेन च यत्कृतम् ५.
संप्रधार्य ततः सर्वे मिलित्वा धर्मशास्त्रतः ५.
इदं विघ्नं समुत्पन्नं दुर्निवार्यं सुरैरपि ५.
तथेति मत्वासौ नंदी शिवस्योत्पाटनं तदा ५.