शिवांगणे तु या भेरी स्थापिता पुण्यकर्मभिः पाषंडिनोऽप्यसद्वादास्तेऽपि यांति परां गतिम्॥ ५.
पशोर्यस्य च संबद्धा चर्मणा च शिवालये स पशुः शिवसान्निध्यमाप्नोत्यत्र न संशयः॥ ५.
तस्मात्ततं च विततं घनं सुषिरमेव च ५.
गाथाश्च इतिहासाश्च गायनं च यथाविधि ५.
कल्पयित्वा च गच्छंति शिवलोकं हि पापिनः ५.
गुरोर्मुखाच्च संप्राप्तशिवपूजारताश्च ये ५.
सम्यग्बुद्ध्या समाचारा वर्णाश्रमयुता नराः ५.
श्वपचोऽपि वरिष्ठः स शंभोः प्रियतरो भवेत् ५.
तस्मात्सर्वं शिवमयं ज्ञातव्यं सुविशेषतः ५.
आगमैर्विविधैः शंभुर्ज्ञातव्यो नात्र संशयः ५.
कथयामि पुरावृत्तमितिहासं पुरातनम् ५.
शिवध्यानपरो भूत्वा शिवपूजां चकार सः ५.
उषस्युषसि चोत्थाय प्रत्यहं शिववल्लभः ५.
लिंगं पंचामृतेनैव यथोक्तेनाभ्यषेचयत् ५.
यथाशास्त्रेण विधिना लिंगार्चनपरोऽभवत् ५.
मुक्ताफलैरिंद्रनीलैर्गोमेदैश्च निरंतरम् ५.
एवं नंदी महाभागो बहून्यब्दानि चार्च्चयत् ५.
एकदा मृगयासक्तः किरातो भूतहिंसकः ५.
पापी पापसमाचारो विचरन्गिरिकंदरे ५.
एवं विचरमाणोऽसौ किरातो भूतहिंसकः ५.
उदकं वीक्षमाणोऽसौ तृषया पीडितो भृशम् ५.
तीरे संस्थाप्य दुष्टात्मा तत्सर्वं मृगयादिकम् ५.
शिवालयं ददर्शाग्रे अनेकाश्चर्यमंडितम् ५.
तथा लिंगं समालक्ष्य यदा पूजां समाहरत् ५.
स्नपनं तस्य लिंगस्य कृतं गंडूषवारिणा ५.
द्वितीयेन करेँणैव मृगमांसं समर्पयत् ५.
अद्यप्रभृति पूजां वै करिष्यामि प्रयत्नतः ५.
एवं नैयमिको भूत्वा किरातो गृहमागतः ५.
चिंतायुक्तोऽभवन्नंदी जातं किं छिद्रमद्य मे उपस्थितानि तान्येव मम भाग्यविपर्ययात्॥ ५.
एवं विमृश्य सुचिरं प्रक्षाल्य शिवमंदिरम् ५.