दूतान्संभर्त्सयामास यमो धर्मभृतां वरः ५.
गच्छ पुण्यतमाँल्लोकान्भुंक्ष्व राजन्यसत्तम ५.
पंचभूतानि यावच्च तावत्त्वं च सुखी भव ५.
यमस्य वचनं श्रुत्वा इंद्रसेनोभ्यभाषत ५.
तच्छ्रुत्वा वचनं तस्य यमो भाष्यमभाषत ५.
तेन कर्मविपाकेन सदा पूतोसि मानद ५.
एवं संभाषमाणस्य यमस्य च महात्मनः ५.
नीलकंठा दशभुजाः पंचवक्त्रास्त्रिलोचनाः ५.
तान्दृष्ट्वा सहसोत्थाय यमो धर्मभृतां वरः ५.
त्वरीरेनैव ते सर्वे ऊचुर्वैवस्वतं यमम् नाम्नाः प्रवर्त्तको नित्यं रुद्रस्य च महात्मनः॥ ५.
श्रुत्वा च वचनं तेषां यमेन च पुरस्कृतः ५.
आनीतोयं तदा तैश्च पार्षदप्रवरोत्तमैः ५.
अभ्युत्थायागतो रुद्रः परिष्वज्य तदा नृपम् ५.
किं दातव्यं नृपश्रेष्ठ प्रयच्छामि तवेप्सितम् आनंदाश्रुकणान्मुंचन्प्रेम्णा नोवाच किंचन॥ ५.
तदा कृतो महेशेन पार्षदो हि महात्मना ५.
नामोच्चारणमात्रेण रुद्रस्य परमात्मनः ५.
रहेहरेति वै नाम्ना शंभोश्चक्रधरस्य च ५.
महेशान्नापरो देवो दृश्यतेभुवनत्रये ५.
पत्रैःपुष्पैः फलैर्वापि जलैर्वा विमलैः सदा ५.
करवीराद्दशगुणमर्कपुष्पं विशिष्यते ५.
शिवस्यांगणलग्ना या तस्मात्तां धारयेत्सदा ५.
सर्वपापहरं पुण्यं तच्छृणुध्वं द्विजोत्तमाः ५.
तं खादितुं समायातः श्वाशिरस्युपरिस्थितः ५.
ललाटे पतिता तस्य त्रिपुंड्रांकिंतमुद्रया ५.
कैलासं तस्करो नीतो रुद्रदूतैस्ततस्तदा ५.
विभूत्वा मंडितांगानां नराणां पुण्यकर्मणाम् ५.
जटाकलापिनो ये च ये रुद्राक्षविभूषणाः ५.
तस्मात्सदाशिवः पुंभिः पूजनीयो हि नित्यशः ५.
प्रातस्तु दर्शनाच्छंभोर्नैशमेनो व्यपोहति पापं प्रणाशमायाति निशायां नैव गण्यते॥ ५.
शिवेति द्व्यक्षरं नाम महा पापप्रणाशनम् ५.