एककालं द्विकालं वा त्रिकालं चानुपश्यति ५.
श्रद्धावान्भजते यो वा शिवाय परमात्मने ५.
अत्रैवोदाहरंतीम मितिहासं पुरातनम् ५.
पुरा कृतयुगे ह्यसीदिन्द्रसेनो नराधिपः ५.
अब्रह्मण्यः सदा क्रूरः केवलासुतृपः सदा ५.
परस्त्रीलं पटोऽत्यंतं परद्रव्येषु लोलुपः ५.
गुरुलत्पगतोत्यर्थं सदा सौवर्णतस्करः ५.
एवं बहुविधं राज्यं चकार स दुरात्मवान् ५.
तदा याम्यैश्च नीतोऽसाविंद्रसेनो दुरात्मवान् ५.
यमेन दृष्टस्तत्रासाविंद्रसेनोग्रतः स्थितः ५.
दूतान्संभर्त्सयामास यमो धर्मभृतां वरः ५.
गच्छ पुण्यतमाँल्लोकान्भुंक्ष्व राजन्यसत्तम ५.
पंचभूतानि यावच्च तावत्त्वं च सुखी भव ५.
यमस्य वचनं श्रुत्वा इंद्रसेनोभ्यभाषत ५.
तच्छ्रुत्वा वचनं तस्य यमो भाष्यमभाषत ५.
तेन कर्मविपाकेन सदा पूतोसि मानद ५.
एवं संभाषमाणस्य यमस्य च महात्मनः ५.
नीलकंठा दशभुजाः पंचवक्त्रास्त्रिलोचनाः ५.
तान्दृष्ट्वा सहसोत्थाय यमो धर्मभृतां वरः ५.
त्वरीरेनैव ते सर्वे ऊचुर्वैवस्वतं यमम् नाम्नाः प्रवर्त्तको नित्यं रुद्रस्य च महात्मनः॥ ५.
श्रुत्वा च वचनं तेषां यमेन च पुरस्कृतः ५.
आनीतोयं तदा तैश्च पार्षदप्रवरोत्तमैः ५.
अभ्युत्थायागतो रुद्रः परिष्वज्य तदा नृपम् ५.
किं दातव्यं नृपश्रेष्ठ प्रयच्छामि तवेप्सितम् आनंदाश्रुकणान्मुंचन्प्रेम्णा नोवाच किंचन॥ ५.
तदा कृतो महेशेन पार्षदो हि महात्मना ५.
नामोच्चारणमात्रेण रुद्रस्य परमात्मनः ५.
रहेहरेति वै नाम्ना शंभोश्चक्रधरस्य च ५.
महेशान्नापरो देवो दृश्यतेभुवनत्रये ५.
पत्रैःपुष्पैः फलैर्वापि जलैर्वा विमलैः सदा ५.
करवीराद्दशगुणमर्कपुष्पं विशिष्यते ५.