तदोक्तः शंकरेणैव वीरभद्रो महामनाः ५.
दास्यामि जीवनं वीर कुटिलस्यापि चाधुना ५.
मया शिरो हुतं चाग्नौ तदानीमेव शंकर ५.
इति ज्ञात्वा ततो रुद्रः कबंधोपरि चाक्षिपत् ५.
स दक्षो जीवितं लेभे प्रसादाच्छंकरस्य च तुष्टाव प्रणतो भूत्वा शंकरं लोकशंकरम्॥ ५.
नमामि देवं वरदं वरेण्यं नमामि देवेश्वरं सनातनम् ५.
नमामि विश्वेश्वरविश्वरूपं सनातनं ब्रह्म निजात्मरूपम् ५.
दक्षेण संस्तुतो रुद्रो बभाषे प्रहसन्रहः॥ ५.
चतुर्विधा भजंते मां जनाः सुकृतिनः सदा ५.
तस्मान्मे ज्ञानिनः सर्वे प्रियाः स्युर्नात्र संशयः ५.
केवलं कर्मणा त्वं हि संसारात्तर्तुमिच्छसि॥ ५.
न वेदैश्च न दानैश्च न यज्ञैस्तपसा क्वचित् ५.
तस्माज्ज्ञानपरो भूत्वा कुरु कर्म्म समाहितः ५.
उपदिष्टस्तदा तेन शंभुना परमेष्ठिना ५.
ब्रह्मणापि तथा सर्वे भृग्वाद्याश्च महर्षयः ५.
गतः पितामहो ब्रह्मा ततश्च सदनं स्वकम्॥ ५.
दक्षोपि च स्वयं वाक्यात्परं बोधमुपागतः। शिवध्यानपरो भूत्वा तपस्तेपे महामनाः॥ ५.
तस्मात्सर्वप्रयत्नेन संक्षेव्यो भगवाञ्छिवः॥ ५.
संमार्जनं च कुर्वंति नरा ये च शिवांगणे ५.
ये शिवस्य प्रयच्छति दर्प्पणं सुमहाप्रभम् ५.
चामराणि प्रयच्छंति देवदेवस्य शूलिनः ५.
दीपदानं प्रयच्छंति महादेवालये नराः ५.
धूपं ये वै प्रयच्छन्ति शिवाय परमात्मने ५.
नैवेद्यं ये प्रयच्छंति भकया हरिहराग्रतः ५.
भग्नं शिवालयं ये च प्रकुर्वंति नरोत्तमाः ५.
नूतनं ये प्रकृर्वंति इष्टकैरश्मनापि वा यशो भूमौ द्विजश्रेष्ठा कार्या विचारणा॥ ५.
कारयंति च ये विप्राः प्रासादं बहुभूमिकम् ५.
शुद्धं धवलितं ये च कुर्वन्ति हरमंदिरम् ५.
वितानं ये प्रयच्छति नराः सुकृतिनोपि हि ५.
ये च नादमयीं घंटां निबध्नंति शिवालये ५.