मनसा दूयमानेन शंन लेभे पितामहः ५.
गमनाय मतिं चक्रे कैलासं पर्वतं प्रति ५.
प्रविष्टः पर्वतश्रेष्ठं स ददर्श सदाशिवम् ५.
कपर्द्दिनं श्रिया युक्तं वेदांगानां च दुर्गमम् ५.
दंडवत्पतितो भूमौक्षमापयितुमुद्यतः स्तुतिं कर्तुं समारेभे शिवस्य परमात्मनः॥ ५.
नमो रुद्राय शांताय ब्रह्मणे परमात्मने ५.
नमो रुद्राय महते नीलकंठाय वेधसे ५.
ओंकारस्त्वं वषट्कारः सर्वारंभप्रवर्तकः ५.
सर्वेषां यज्ञकर्तॄणां त्वमेव प्रतिपालकः रक्ष रक्ष महादेव पुत्रशोकेन पीडितम्॥ ५.
श्रृणुष्वावहितो भूत्वा मम वाक्यं पितामह ५.
स्वीयेन कर्मणा दक्षो हतो ब्रह्मन्न संशयः॥ ५.
परेषां क्लेशदं कर्म न कार्यं तत्कदाचन ५.
एवमुक्त्वा तदा रुद्रो ब्रह्मणा सहितः सुरैः ५.
रुद्रस्तदा ददर्शाय वीरभद्रेण यत्कृतम् ५.
तदान्य ऋषयः सर्वे पितरश्च तथाविधाः ५.
त्रोटिता लुंचिताश्चैव मृताः केचिद्रणाजिरे॥ ५.
शंभुं समागतं दृष्ट्वा वीरभद्रो गणैः सह ५.
दृष्ट्वा पुरः स्थितं रुद्रो वीरभद्रं महाबलम् ५.
दक्षमानय शीघ्रं भो येनेदं कृतमीदृशम् ५.
एवमुक्तः शंकरेण वीरभद्रस्त्वरान्वितः ५.
तदोक्तः शंकरेणैव वीरभद्रो महामनाः ५.
दास्यामि जीवनं वीर कुटिलस्यापि चाधुना ५.
मया शिरो हुतं चाग्नौ तदानीमेव शंकर ५.
इति ज्ञात्वा ततो रुद्रः कबंधोपरि चाक्षिपत् ५.
स दक्षो जीवितं लेभे प्रसादाच्छंकरस्य च तुष्टाव प्रणतो भूत्वा शंकरं लोकशंकरम्॥ ५.
नमामि देवं वरदं वरेण्यं नमामि देवेश्वरं सनातनम् ५.
नमामि विश्वेश्वरविश्वरूपं सनातनं ब्रह्म निजात्मरूपम् ५.
दक्षेण संस्तुतो रुद्रो बभाषे प्रहसन्रहः॥ ५.
चतुर्विधा भजंते मां जनाः सुकृतिनः सदा ५.
तस्मान्मे ज्ञानिनः सर्वे प्रियाः स्युर्नात्र संशयः ५.