एवं बृहस्पतेर्वाक्यं श्रुत्वा तेऽपि दिवौकसः ४.
ततोऽब्रवीद्वीरभद्रो गणैः परिवृतो भृशम् ४.
अवदानानि दास्यामि तृप्त्यर्थं भवतां त्वरन् ४.
तैर्बाणैर्निहताः सर्वे जग्मुस्ते च दिशो दश॥ ४.
गतेषु लोकपालेषु विद्रुतेषु सुरेषु च ४.
तदा त ऋषयः सर्वे सर्वमेवेश्वरेश्वरम् ४.
रक्ष यज्ञं हि दक्षस्य यज्ञोसि त्वं न संशयः ४.
योद्धुकामः स्थितो युद्धे विष्णुरध्यात्मदीपकः ४.
अत्र त्वयागतं कस्माद्विष्णो वेत्त्रा महाबलम् ४.
दाक्षायण्या कृतं यच्च न दृष्टं किं त्वयानघ अवदानं प्रयच्छामि तव चापि महाभूज॥ ४.
एवमुक्त्वा प्रणम्यादौ विष्णुं सदृशरूपिणम् ४.
यथा शंभुस्तथा त्वं हि मम नास्त्यत्र संशयः नेष्याम्यपुनरावृत्तिं यदि तिष्ठेस्त्वमात्मना॥ ४.
तस्य तद्वचनं श्रुत्वा वीरभद्रस्य धीमतः ४.
रुद्रतेजःप्रसूतोसि पवित्रोऽसि महामते ४.
अहं भक्तपराधीनस्तथा सोऽपि महेश्वरः ४.
आगतोऽहं वीरभद्र रुद्रकोपसमुद्भव ४.
इत्युक्तवति गोविंदे प्रहस्य स महाभुजः ४.
यथा शिवस्तथा त्वं हि यथा त्वं च तथा शिवः ४.
तच्छ्रुत्वा वचनं तस्य सोऽच्युतः संप्रहस्य च ४.
योधयस्व महाबाहो मया सार्धमशंकितः ४.
तथेत्युक्त्वा तु वीरोऽसौ वीरभद्रो महाबलः ४.
विष्णुश्चापि महाघोषं शंखनादं चकार सः ४.
व्यूहं चक्रुस्तदा सर्वे लोकपालाः सवासवाः ४.
नंदीना च हतः शक्रस्त्रिशूलेन स्तनांतरे ४.
शूलेन सितधारेण संनद्धो दण्डधारिणा ४.
कुबेरेण च संगम्य कूष्मांडानां पतिः स्वयम् ४.
युयुधे परयाशक्त्या त्रैलोक्यं विस्मयन्निव ४.
युयुधे परमास्त्रेण नैर्ऋत्यं च विडंबयन् ४.
विदार्य देवानखिलान्पपौ शोणितमद्बुतम् ४.
साकिनी डाकिनी रौद्रा नवदुर्गास्तथैव च नेदुः पपुः शोणितं च बुभुजुः पिशितं बहु॥ ४.