इंद्रोपि प्रहसन्विष्णुमात्मवादरतं तदा ४.
भृगुणाचारितः शीघ्रमुच्चाटनपरेण हि ४.
शरतोमरनागचैर्जघ्नुस्ते च परस्परम् ४.
तथा दुन्दुभयो नेदुः पटहा डिंडिमादयः लोकपालैश्च सहिता जघ्नुस्ताञ्छिवकिंकरान्॥ ४.
खड्गैश्चापि हताः केचिद्गदाभिश्च विपोथिताः ४.
इंद्राद्यौर्लोकपालैश्च गणास्ते च पराङ्गमुखाः ४.
उच्चाटनं कृतं तेषां भृगुणा यज्विना तदा ४.
तेनैव देवा जयिनो जातास्तत्क्षणमेव हि ४.
भूतान्प्रेतान्पिशाचांश्च कृत्वा तानेव पृष्ठतः तीक्ष्णं त्रिशूलमादाय पातयामास तान्रणे॥ ४.
देवान्यक्षान्पिशाचांश्च गुह्यकान्राक्षसां स्तथा ४.
केचिद्द्विधाकृताः खङ्गैर्मुद्गरैश्चापि पोथिताः ४.
शूलैर्भिन्नाश्च शतशः केचिच्च शकलीकृताः ४.
परस्परं परिष्वज्य गतास्तेपि त्रिविष्टपम् बृहस्पतिं पृच्छमानाः कुतोस्माकं जयो भवेत्॥ ४.
बृहस्पतिरुवाचेदं सुरेंद्रं त्वरितस्तदा बृहस्पतिरुवाच ४.
अस्ति चेदीश्वरः कश्चित्फलरूप्यस्य कर्म्मणः ४.
न मंत्रौषधयः सर्वे नाभिचारा न लौकिकाः ४.
ज्ञातुमीशाः संभवंति भक्त्याज्ञेयस्त्वनन्यया ४.
तेन सर्वं संभवंति सुखदुःझखात्मकं जगत् ४.
त्वमिंद्र बालिशो भूत्वा लोकपालैः सहाद्य वै ४.
एते रुद्रसहायाश्च गणाः परमशोभनाः ४.
एवं बृहस्पतेर्वाक्यं श्रुत्वा तेऽपि दिवौकसः ४.
ततोऽब्रवीद्वीरभद्रो गणैः परिवृतो भृशम् ४.
अवदानानि दास्यामि तृप्त्यर्थं भवतां त्वरन् ४.
तैर्बाणैर्निहताः सर्वे जग्मुस्ते च दिशो दश॥ ४.
गतेषु लोकपालेषु विद्रुतेषु सुरेषु च ४.
तदा त ऋषयः सर्वे सर्वमेवेश्वरेश्वरम् ४.
रक्ष यज्ञं हि दक्षस्य यज्ञोसि त्वं न संशयः ४.
योद्धुकामः स्थितो युद्धे विष्णुरध्यात्मदीपकः ४.
अत्र त्वयागतं कस्माद्विष्णो वेत्त्रा महाबलम् ४.
दाक्षायण्या कृतं यच्च न दृष्टं किं त्वयानघ अवदानं प्रयच्छामि तव चापि महाभूज॥ ४.