आश्वास्यति सुरान्सर्वानुत्तरायणसंगमे
सर्वेषां देवयोनीनां भविता तत्र संगमः
सर्वजन्मकृताघौघ प्रायश्चित्तं व्रजंति ते
तदा मद्रूपमभ्यर्च्य कृतार्थाः सन्तु मानवाः 1.3.1.9.
तेषां पुरोगतः साक्षादहं जेष्यामि विद्विषः
तस्य तस्य स्थिरं राज्यं शत्रूणां च पराहतिम्
न वाहनेन कुर्वीत मम जातु प्रदक्षिणाम्
धर्मकेतुः पुरा राजा यमलोकादुपागतः
क्षणेन तुरगो जातो गणनाथः सुरार्चितः
वीक्ष्य तं वाहनं भूयो गणनाथवपुर्द्धरम्
तदाप्रभृति शक्राद्याः सुरा विष्णुसमन्विताः
स्वर्गान्निपातितः कोऽपि सिद्धः काले तपःक्षयात्
स्खलितं पादजं रक्तं मम कर्तुः प्रदक्षिणम् 1.3.1.9.
प्रदक्षिणमहावीथी शिलाशकलघट्टितम्
मणिपर्वतशृंगेषु कल्पद्रुमवनांतरे
यैर्वै जनः कृतार्थः स्याद्यथाशक्ति कृतादरः
यन्मह्यं कृपया पूर्वमुक्तवान्परमेश्वरः
लूती तंतुकजालानि संसृज्य क्वचिदेव मे
गजः कश्चितृषाक्रांतो विमुच्य च मधु क्वचित्
कृमयो विलुठन्तो मे पार्श्वे दुरितवर्जिताः
अव्युच्छिन्नप्रदीपार्चिः क्षणमप्यादधाति यः
हारीतः कोपि संप्राप्तः शाखानीडो ममांतिके
गावः प्रस्रवणैः सिक्ता वत्सस्मरणसंभवैः 1.3.1.9.
काकः पक्षजवातेन बलिग्रहणलोलुपः
मूषको मद्गुहाभागं मणिसंघविकर्षणैः
छायावृक्षत्वमास्थातुं मुनयस्त्रिदशा अपि
गोपुरं शिखरं शालां मण्डपं वापिकामपि
सदा मर्त्त्यैरनासाद्यमग्निलिंगमिदं मम
वीक्षणस्पर्शनध्यानैः स्वभूतं निखिलं जगत्
सर्वलोकैकजननी संप्राप्ता नित्ययौवनम्