कुबेरः पुष्पकारूढः पाशी मकरमेव च ३.
तथान्ये सुरसंघाश्च यक्षचारणगुह्यकाः ३.
स्वेषामुद्योगमालोक्य दक्षश्चाश्रुमुखस्ततः ३.
युष्मद्बलेनैव मया यज्ञः प्रारंभितो महान् ३.
विष्णो त्वं कर्मणः साक्षाद्यज्ञानां परिपालकः ३.
तस्माद्रक्षा विधातव्या यज्ञस्याऽस्य महाप्रभो ३.
मया रक्षा विधातव्या धर्मस्य परिपालने ३.
यातस्त्वद्यैव यज्ञस्य यत्त्वयोक्तं सदाशिवम् ३.
योऽयं रुद्रो महातेजा यज्ञरूपः सदाशिवः ३.
रुद्रकोपाच्च को ह्यत्र समर्थो रक्षणे तव ३.
किं कर्म्म किमकर्म्मेति तन्न पश्यसि दुर्म्मते ३.
सेश्वरं कर्म विद्ध्योतत्समर्थत्वेन जायते ३.
ईश्वरस्य च ये भक्ताः शांतास्तद्गतमानसाः ३.
केवलं कर्म चाश्रित्य निरीश्वरपरा जनाः ३.
पुनः कर्ममयैः पाशैर्बद्धा जन्मनिजन्मनि ३.
विष्णुनोक्तं वचः श्रुत्वा दक्षो वचनमब्रवीत् ४.
वैदिकं कर्म चोत्सृज्य कथं सेश्वरतां व्रजेत् ४.
दक्षेणोक्तो महाविष्णुरुवाच परिसांत्वयन् ४.
वेदोदितानि कर्माणि ईश्वरेण विना कथम् ४.
तस्मात्सर्वप्रयत्नेन ईश्वरं शरणं व्रऐजा वीरभद्रेण सदृशो ददृशुस्तं तदा सुराः॥ ४.
इंद्रोपि प्रहसन्विष्णुमात्मवादरतं तदा ४.
भृगुणाचारितः शीघ्रमुच्चाटनपरेण हि ४.
शरतोमरनागचैर्जघ्नुस्ते च परस्परम् ४.
तथा दुन्दुभयो नेदुः पटहा डिंडिमादयः लोकपालैश्च सहिता जघ्नुस्ताञ्छिवकिंकरान्॥ ४.
खड्गैश्चापि हताः केचिद्गदाभिश्च विपोथिताः ४.
इंद्राद्यौर्लोकपालैश्च गणास्ते च पराङ्गमुखाः ४.
उच्चाटनं कृतं तेषां भृगुणा यज्विना तदा ४.
तेनैव देवा जयिनो जातास्तत्क्षणमेव हि ४.
भूतान्प्रेतान्पिशाचांश्च कृत्वा तानेव पृष्ठतः तीक्ष्णं त्रिशूलमादाय पातयामास तान्रणे॥ ४.
देवान्यक्षान्पिशाचांश्च गुह्यकान्राक्षसां स्तथा ४.