तदानीमेव सहसा दुर्निमित्तानि चाभवन् ३.
असृग्वर्षति देवश्च तिमिरेणाऽऽवृता दिवशः ३.
एवंविधान्यरिष्टानि ददृशुर्विबुधादयः ३.
रक्षरक्ष महाविष्णो त्वं हि नः परमो गुरुः ३.
दक्षेण प्रार्थ्य मानो हि जगाद मधुसूदनः ३.
अपूज्या यत्र पूज्यंते पूजनीयो न पूज्यते ईश्वरावज्ञया सर्वं विफलं च भविष्यति॥ ३.
अपूज्या यत्र पूज्यं ते पूजनीयो न पूज्यते ३.
तस्मात्सर्वप्रयत्नेन माननीयो वृषध्वजः ३.
अधुनैव वयं सर्वे प्रभवो न भवामहे ३.
विष्णोस्तद्वचनं श्रुत्वा दक्षश्चिंतापरोऽभवत् ३.
वीरभद्रो महाबाहू रुद्रेणैव प्रचोदितः ३.
भद्रकाली तथा भद्रा त्वरिता वैष्णवी तथा ३.
शाकिनी डाकिनी चैव भूतप्रमथगुह्यकाः ३.
निजन्मुः सहसा तत्र यज्ञवाटं महाप्रभम् दशबाहवस्त्रिनेत्रा जटिला रुद्रभूषणाः॥ ३.
पार्षदाः शंकरस्यैते सर्वे रुद्रस्वरूपिणः ३.
छत्रचामरसंवीताः सर्वे हरपराक्रमाः ३.
अर्धचंद्रधराः सर्वे सर्वे चैव महौजसः ३.
सहस्रबाहुर्भुजगाधिपैर्वृतस्त्रिलोचनो भीमबलो भयावहः ३.
युग्यानां च सहस्रेण द्विप्रमाणेन स्यंदनम् ३.
तथैव दंशिताः सिंहा बहवः पार्श्वरक्षकाः छत्राणि विविधान्येव चामराणि तथैव च॥ ३.
मूर्द्धनिध्रियमाणानि सर्वतोग्राणि सर्वशः पटहा गोमुखाश्चैव श्रृंगाणि विविधानि च॥ ३.
ततोऽवाद्यंत तान्येव घनानि सुषिराणि च ३.
अनेकलास्यसंयुक्ता वीरभद्राग्रतोभवन् ३.
तेन नादेन महता नादितं भुवनत्रयम् ३.
यज्ञवाटं च दक्षस्य विनाशार्थं प्रहारिणः ३.
सप्तद्वीपवती पृथ्वी चचाल साद्रिकानना ३.
उत्तस्थुर्युगपत्सर्वे देवदैत्यनिशाचराः ३.
पृथ्वीं केचित्समायाता गगने केचिदागताः ३.
अनंता ह्यक्षयाः सर्वे शूरा रुद्रसमा युधि दृष्ट्वो चुर्विस्मिताः सर्वे यामोऽद्य शस्त्रपाणयः॥ ३.
इंद्रो हि गजमारूढो मृगारूढः सदागतिः ३.