हे विष्णो त्वं महादेवं जानासि परमेश्वरम् ३.
पुरा पंचमुखो भूत्वा गर्वितोसि सदाशिवम् ३.
भिक्षाटनं कृतं येन पुरा दारुवने विभुः ३.
शप्तेनापि च रुद्रेण भवद्भिर्विस्मृतं कथम् ३.
लिंगभूतं जगत्सर्वं जातं तत्क्षणमेव हि ३.
सर्वे देवाश्च संभूता यतो देवस्य शूलिनः ३.
तस्या वचनमाकर्ण्य दक्षः क्रुद्धोऽब्रवीद्वचः ३.
गच्छ वा तिष्ठवा भद्रे कस्मात्त्वं हि समागता ३.
अकुलीनो वेदबाह्यो भूतप्रेतपिशाचराट् ३.
मया दत्तासि सुश्रोणि पापिना मंदबुद्धिना ३.
तस्मात्कायं परित्यज्य स्वस्था भव शुचिस्मिते ३.
निंदायुक्तं स्वपितरं विलोक्य रुषिता भृशम् ३.
शंकरं द्रष्टुकामांह किं वक्ष्ये तेन पृच्छिता तावुभौ नरके यातो यावच्चन्द्रदिवाकरौ॥ ३.
तस्मात्तयक्ष्याम्यहं देहं प्रवेक्ष्यामि हुताशनम्॥ ३.
एवं मीमांसमाना सा शिवरुद्रेतिभाषिणी ३.
हाहाकारेण महता व्याप्तमासीद्दिगंतरम् ३.
शस्त्रैः स्वैर्जध्नुरात्मानं स्वानि देहानि चिच्छिदुः ३.
नीराजयंतस्त्वरिता भस्मीभूताश्च जज्ञिरे ३.
शस्त्रप्राहारैः स्वांगानि चिच्छिदुश्चातिभीषणाः ३.
गणास्तत्रायूते द्वे च तदद्भुतमिवाभवत् ३.
विश्वेऽश्वनौ लोकपालास्तूष्णींबूतास्तदाभवन् ३.
एवं भूतस्तदा यज्ञो जातस्तस्य दुरात्मनः ३.
एतस्मिन्नंतरे विप्रा नारदेन महात्मना ३.
तदाकर्ण्येश्वरो वाक्यं नारदस्य मुखोद्गतम् ३.
उद्धृत्य च जटां रुद्रो लोकसंहारकारकः ३.
ताडनाच्च समुद्भूतो वीरभद्रो महायशाः ३.
कोपान्निःश्वसितेनैव रुद्रस्य च महात्मनः ३.
विज्ञप्तो वीरभद्रेण रुद्रो रौद्रपराक्रमः ३.
इत्युक्तो भगवान्रुद्रः प्रेषयामास सत्वरम् ३.
शासनं शिरसा धृत्वा देवदेवस्य शूलिनः वीरभद्रो महातेजा ययौ दक्षमखं प्रति॥ ३.