भूषणानि महार्हाणि तेभ्यो देव्यै परंतपः २.
देव्या गतं वै स्वपितुर्गृहं तदा विमृश्य सर्वं भगवान्महेशः २.
दाक्षायणी गता तत्र यत्र यज्ञो महानभूत् ३.
द्वारि स्थिता तदा देवा अवतीर्य निजासनात् ३.
मातरं पितरं दृष्ट्वा सुहृत्संबंधि वांधवान् ३.
बभाषे वचनं देवी प्रस्तापसदृशं तदा ३.
येन पूतमिदं सर्वं समग्रं सचराचरम् ३.
द्रव्यं मंत्रादिकं सर्वं हव्यं कव्यं च यन्मयम् ३.
शंभुना हि विना तात कथं यज्ञः प्रवर्तते ३.
हे भृगो त्वं न जानासि हे कश्यप महामते ३.
हे विष्णो त्वं महादेवं जानासि परमेश्वरम् ३.
पुरा पंचमुखो भूत्वा गर्वितोसि सदाशिवम् ३.
भिक्षाटनं कृतं येन पुरा दारुवने विभुः ३.
शप्तेनापि च रुद्रेण भवद्भिर्विस्मृतं कथम् ३.
लिंगभूतं जगत्सर्वं जातं तत्क्षणमेव हि ३.
सर्वे देवाश्च संभूता यतो देवस्य शूलिनः ३.
तस्या वचनमाकर्ण्य दक्षः क्रुद्धोऽब्रवीद्वचः ३.
गच्छ वा तिष्ठवा भद्रे कस्मात्त्वं हि समागता ३.
अकुलीनो वेदबाह्यो भूतप्रेतपिशाचराट् ३.
मया दत्तासि सुश्रोणि पापिना मंदबुद्धिना ३.
तस्मात्कायं परित्यज्य स्वस्था भव शुचिस्मिते ३.
निंदायुक्तं स्वपितरं विलोक्य रुषिता भृशम् ३.
शंकरं द्रष्टुकामांह किं वक्ष्ये तेन पृच्छिता तावुभौ नरके यातो यावच्चन्द्रदिवाकरौ॥ ३.
तस्मात्तयक्ष्याम्यहं देहं प्रवेक्ष्यामि हुताशनम्॥ ३.
एवं मीमांसमाना सा शिवरुद्रेतिभाषिणी ३.
हाहाकारेण महता व्याप्तमासीद्दिगंतरम् ३.
शस्त्रैः स्वैर्जध्नुरात्मानं स्वानि देहानि चिच्छिदुः ३.
नीराजयंतस्त्वरिता भस्मीभूताश्च जज्ञिरे ३.
शस्त्रप्राहारैः स्वांगानि चिच्छिदुश्चातिभीषणाः ३.
गणास्तत्रायूते द्वे च तदद्भुतमिवाभवत् ३.