तस्य ये मानिनः सर्वे ससुरासुकिंनराः २.
अनाहूताश्च ये सुभ्रु गच्छंति परमन्दिरम् २.
परेषां मंदिरं प्राप्त इंद्रोपि लघुतां व्रजेत् २.
एवमुक्ता सती तेन महेशेन महात्मना २.
यज्ञो हि सत्यं लोके त्वं स त्वं देववरेश्वर तत्सर्वं ज्ञातुमिच्छामि तस्य भावं दुरात्मनः॥ २.
तस्माच्चाद्यैव गच्छामि यज्ञवाडं पितुर्म्मम २.
इत्युक्तो भगवान्रुद्रस्तया देव्या शिवः स्वयम् २.
स तामुवाच देवेशो महेशः सर्वसिद्धिदः २.
एतं नंदिनमारुह्य नानाविधगणान्विता २.
तैर्गणैः संवृता देवी जगाम पितृमंदिरम् २.
भूषणानि महार्हाणि तेभ्यो देव्यै परंतपः २.
देव्या गतं वै स्वपितुर्गृहं तदा विमृश्य सर्वं भगवान्महेशः २.
दाक्षायणी गता तत्र यत्र यज्ञो महानभूत् ३.
द्वारि स्थिता तदा देवा अवतीर्य निजासनात् ३.
मातरं पितरं दृष्ट्वा सुहृत्संबंधि वांधवान् ३.
बभाषे वचनं देवी प्रस्तापसदृशं तदा ३.
येन पूतमिदं सर्वं समग्रं सचराचरम् ३.
द्रव्यं मंत्रादिकं सर्वं हव्यं कव्यं च यन्मयम् ३.
शंभुना हि विना तात कथं यज्ञः प्रवर्तते ३.
हे भृगो त्वं न जानासि हे कश्यप महामते ३.
हे विष्णो त्वं महादेवं जानासि परमेश्वरम् ३.
पुरा पंचमुखो भूत्वा गर्वितोसि सदाशिवम् ३.
भिक्षाटनं कृतं येन पुरा दारुवने विभुः ३.
शप्तेनापि च रुद्रेण भवद्भिर्विस्मृतं कथम् ३.
लिंगभूतं जगत्सर्वं जातं तत्क्षणमेव हि ३.
सर्वे देवाश्च संभूता यतो देवस्य शूलिनः ३.
तस्या वचनमाकर्ण्य दक्षः क्रुद्धोऽब्रवीद्वचः ३.
गच्छ वा तिष्ठवा भद्रे कस्मात्त्वं हि समागता ३.
अकुलीनो वेदबाह्यो भूतप्रेतपिशाचराट् ३.
मया दत्तासि सुश्रोणि पापिना मंदबुद्धिना ३.