केचिद्भयानका रौद्राः कबंधाश्च तथा परे २.
एवंभूताश्च शतशः सर्वे ते कृत्तिवाससः २.
जितेंद्रिया वीतरागाः सर्वे विषयवैरिणः दृष्टस्तया उपाविष्ट आसने परामाद्भुते॥ २.
आक्षिप्तचित्ता सहसा जगाम शिवसंनिधिम् २.
प्रेम्णोदिता वचोभिः सा बहुमानपुरःसरम् २.
एवमुक्ता तदा तेन उवाचासितलोचना॥ २.
पितुर्मम महायज्ञे कस्मात्तव न रोचते २.
सुहृदामेष वै धर्मः सुहृद्भिः सह संगतिम् २.
तसमात्सर्वप्रयत्नेन अनाहूतोऽपि गच्छ भोः २.
तस्यास्तद्वचनं श्रुत्वा ब भाषे सूनृतं वचः २.
तस्य ये मानिनः सर्वे ससुरासुकिंनराः २.
अनाहूताश्च ये सुभ्रु गच्छंति परमन्दिरम् २.
परेषां मंदिरं प्राप्त इंद्रोपि लघुतां व्रजेत् २.
एवमुक्ता सती तेन महेशेन महात्मना २.
यज्ञो हि सत्यं लोके त्वं स त्वं देववरेश्वर तत्सर्वं ज्ञातुमिच्छामि तस्य भावं दुरात्मनः॥ २.
तस्माच्चाद्यैव गच्छामि यज्ञवाडं पितुर्म्मम २.
इत्युक्तो भगवान्रुद्रस्तया देव्या शिवः स्वयम् २.
स तामुवाच देवेशो महेशः सर्वसिद्धिदः २.
एतं नंदिनमारुह्य नानाविधगणान्विता २.
तैर्गणैः संवृता देवी जगाम पितृमंदिरम् २.
भूषणानि महार्हाणि तेभ्यो देव्यै परंतपः २.
देव्या गतं वै स्वपितुर्गृहं तदा विमृश्य सर्वं भगवान्महेशः २.
दाक्षायणी गता तत्र यत्र यज्ञो महानभूत् ३.
द्वारि स्थिता तदा देवा अवतीर्य निजासनात् ३.
मातरं पितरं दृष्ट्वा सुहृत्संबंधि वांधवान् ३.
बभाषे वचनं देवी प्रस्तापसदृशं तदा ३.
येन पूतमिदं सर्वं समग्रं सचराचरम् ३.
द्रव्यं मंत्रादिकं सर्वं हव्यं कव्यं च यन्मयम् ३.
शंभुना हि विना तात कथं यज्ञः प्रवर्तते ३.
हे भृगो त्वं न जानासि हे कश्यप महामते ३.