एतस्मिन्नंतरे तत्र पर्वते गंधमादने २.
दाक्षायणी महादेवी चकार विविधास्तदा २.
क्रीडासक्ता तदा देवी ददर्शाथ महासती २.
क्व गमिष्यति चंद्रोऽयं विजये पृच्छ सत्वरम् २.
कथितं तेन तत्सर्वं दक्षस्यैव मखादिकम् कथयामास तत्सर्वं यदुक्तं शशिना भृशम्॥ २.
विमृश्य कारणं देवी किमाह्वानं करोति न २.
पृच्छामि शंकरं चाद्य कारणं कृतनिश्चया २.
ददर्शतं सभामध्ये त्रिलोचनमवस्थितम् २.
बाणो भृंगिस्तथा नंदी शैलादो हि महातपाः २.
धूम्राक्षो धूम्रकेतुश्च धूम्रपादस्तथैव च २.
केचिद्भयानका रौद्राः कबंधाश्च तथा परे २.
एवंभूताश्च शतशः सर्वे ते कृत्तिवाससः २.
जितेंद्रिया वीतरागाः सर्वे विषयवैरिणः दृष्टस्तया उपाविष्ट आसने परामाद्भुते॥ २.
आक्षिप्तचित्ता सहसा जगाम शिवसंनिधिम् २.
प्रेम्णोदिता वचोभिः सा बहुमानपुरःसरम् २.
एवमुक्ता तदा तेन उवाचासितलोचना॥ २.
पितुर्मम महायज्ञे कस्मात्तव न रोचते २.
सुहृदामेष वै धर्मः सुहृद्भिः सह संगतिम् २.
तसमात्सर्वप्रयत्नेन अनाहूतोऽपि गच्छ भोः २.
तस्यास्तद्वचनं श्रुत्वा ब भाषे सूनृतं वचः २.
तस्य ये मानिनः सर्वे ससुरासुकिंनराः २.
अनाहूताश्च ये सुभ्रु गच्छंति परमन्दिरम् २.
परेषां मंदिरं प्राप्त इंद्रोपि लघुतां व्रजेत् २.
एवमुक्ता सती तेन महेशेन महात्मना २.
यज्ञो हि सत्यं लोके त्वं स त्वं देववरेश्वर तत्सर्वं ज्ञातुमिच्छामि तस्य भावं दुरात्मनः॥ २.
तस्माच्चाद्यैव गच्छामि यज्ञवाडं पितुर्म्मम २.
इत्युक्तो भगवान्रुद्रस्तया देव्या शिवः स्वयम् २.
स तामुवाच देवेशो महेशः सर्वसिद्धिदः २.
एतं नंदिनमारुह्य नानाविधगणान्विता २.
तैर्गणैः संवृता देवी जगाम पितृमंदिरम् २.