कुबेरः पुष्पकारूढो मृगाऽऽरूढोऽथ मारुतः २.
एते सर्वे समायाता यज्ञवाटे द्विजन्मनः २.
भवनानि महार्हाणि सुप्रभाणि महांति च २.
तेषु सर्वेषु धिष्ण्येषु यथाजोषं समास्थिताः॥ २.
वर्त्तमाने महायज्ञे तीर्थे कनखले तथा २.
दीक्षायुक्तस्तदा दक्षः कृतकौतुकमंगलः २.
रेजे महत्त्वेन तदा सुहृद्भिः परितः सदा २.
एते सुरेशा ऋषयो महत्तराः सलोकपालाश्च समागतास्तव २.
येनैव सर्वाण्यपि मंगलानि जातानि शंसंति महाविपश्चितः २.
अमंगलान्येव च मंगलानि भवंति येनाधिकृतानि दक्ष २.
तस्मात्त्वयैव कर्तव्यमाह्वानं परमेष्ठिना २.
सर्वैरेव हि गंतव्यं यत्र देवो महेश्वरः॥ २.
दाक्षायण्या समेतं तमानयध्वं त्वरान्विताः २.
यस्य स्मृत्या च नामोक्त्या समग्रं सुकृतं भवेत् २.
तस्य तद्वचनं श्रुत्वा प्रहसन्नाह दुष्टधीः २.
यस्मिन्वेदाश्च यज्ञाश्च कर्माणिविविधानि च २.
सत्यलोकात्समायातो ब्रह्मा लोकपितामहः २.
तथा सुरगणैः साकमागतः सुरराट् स्वयम् २.
येये यज्ञोचिताः शांतास्तेते सर्वे समागताः २.
अत्रैव च किमस्माकं रुद्रेणापि प्रयोजनम्. २.
अकुलीनो ह्यसौ विप्रा नष्टो नष्टप्रियः सदा २.
आत्मसंभावितो मूढःस्तब्धो मौनी समत्सरः २.
तस्मात्त्वया न वक्तव्यं पुनरेवं वचोद्विज २.
एतच्छ्रुत्वा वचस्तस्य दधीचिर्वाक्यमब्रवीत्॥ २.
सर्वेषामृषिवर्याणां सुराणां भावितात्मनाम् २.
विनाशोऽपि महान्सद्योह्यत्रत्यानां भविष्यति २.
यज्ञवाटाच्च दक्षस्य त्वरितः स्वाश्रमं ययौ २.
गतः शिवप्रियो वीरो दधीचिर्नाम नामतः २.
वेदबाह्य दुराचारास्त्याज्यास्ते ह्यत्र कर्मणि २.
यज्ञं मे सफलं विप्राः कुर्वंतु ह्यचिरादिव २.