प्रपंचरचनां हित्वा बुद्धो भव महामते १.
एवं प्रबोधितस्तेन शंभुना परमेष्ठिना शिवेन सह संगम्य परमानंदसंप्लुतः॥ १.
दक्षोपि हि रुषाऽऽविष्टऋषिभिः परिवारितः १.
श्रद्धां विहाय परमां शिवपूजकानां निंदापरः स हि बभूव नराधमश्च १.
एकदा तु तदा तेन यज्ञः प्रारंभितो महान् २.
ऋषयो विविधास्तत्र वशिष्ठाद्याः समागताः २.
दधीचो भगवान्व्यासो भरद्वाजोऽथ गौतमः २.
तथा सर्वे सुरगणा लोकपालस्तथाऽपरे विद्याधराश्च गंधर्वाः किंनराप्सरसां गणाः॥ २.
सप्तलोकात्समानीतो ब्रह्मा लोकपितामहः २.
देवेन्द्रो हि समानीत इंद्राण्या सह सुप्रभः २.
कुबेरः पुष्पकारूढो मृगाऽऽरूढोऽथ मारुतः २.
एते सर्वे समायाता यज्ञवाटे द्विजन्मनः २.
भवनानि महार्हाणि सुप्रभाणि महांति च २.
तेषु सर्वेषु धिष्ण्येषु यथाजोषं समास्थिताः॥ २.
वर्त्तमाने महायज्ञे तीर्थे कनखले तथा २.
दीक्षायुक्तस्तदा दक्षः कृतकौतुकमंगलः २.
रेजे महत्त्वेन तदा सुहृद्भिः परितः सदा २.
एते सुरेशा ऋषयो महत्तराः सलोकपालाश्च समागतास्तव २.
येनैव सर्वाण्यपि मंगलानि जातानि शंसंति महाविपश्चितः २.
अमंगलान्येव च मंगलानि भवंति येनाधिकृतानि दक्ष २.
तस्मात्त्वयैव कर्तव्यमाह्वानं परमेष्ठिना २.
सर्वैरेव हि गंतव्यं यत्र देवो महेश्वरः॥ २.
दाक्षायण्या समेतं तमानयध्वं त्वरान्विताः २.
यस्य स्मृत्या च नामोक्त्या समग्रं सुकृतं भवेत् २.
तस्य तद्वचनं श्रुत्वा प्रहसन्नाह दुष्टधीः २.
यस्मिन्वेदाश्च यज्ञाश्च कर्माणिविविधानि च २.
सत्यलोकात्समायातो ब्रह्मा लोकपितामहः २.
तथा सुरगणैः साकमागतः सुरराट् स्वयम् २.
येये यज्ञोचिताः शांतास्तेते सर्वे समागताः २.
अत्रैव च किमस्माकं रुद्रेणापि प्रयोजनम्. २.