अष्टादशपुराणेषु गीयते वै परः शिवः १.
शिवेति द्व्यक्षरं नाम व्याहरिइष्यंति ये जनाः १.
उदारो हि महादेवो देवानां पतिरिश्वरः १.
ते धन्यास्ते महात्मानो ये भजंति सदा शिवम्॥ १.
विना सदाशिवं योहि संसारं तर्तुमिच्छति १.
भक्षितं हि गरं येन दक्षयज्ञो विनाशितः १.
यथा गरं भक्षितं च यथा यज्ञो विनाशितः १.
दाक्षायणी पुरा दत्ता शंकराय महात्मने १.
एकदा हि स दक्षो वै नैमिषारण्यमागतः १.
स्तुतिभिः प्रणिपातैश्च तथा सर्वैः सुरासुरैः चकारास्य ततः क्रुद्धो दक्षो वचनब्रवीत्॥ १.
सर्वत्र सर्वे हि सुरासुरा भृशं नमंति मां विप्रवराः समुत्सुकाः श्मशानवासी निरपत्रपो ह्ययं कथं प्रणामं न करोति मेऽधुना॥ १.
पाखंडिनो दुर्जनाः पापशीला विप्रं दृष्ट्वा चोद्धता उन्मदाश्च १.
इत्येवमुक्त्वा स महातपास्तदा रुषान्वितो रुद्रमिदं बभाषे॥ १.
श्रृण्वंत्वमी विप्रतमा इदानीं वचो हि मे कर्तुमिहार्हथैतत् १.
नंदी निशम्य तद्वाक्यं शैलादो हि रुषान्वितः १.
यज्ञबाह्यो हि मे स्वामी महेशोऽयं कृतः कथम् १.
यज्ञो दानं तपश्चैव तीर्थानि विविधानि च १.
वृथा ते ब्रह्मचापल्याच्छप्तोऽयं दक्ष दुर्मते शप्तोऽयं स कथं पाप रुद्रोऽयं ब्राह्मणाधम॥ १.
एवं निर्भार्त्सितस्तेन नंदिना हि प्रजापतिः १.
यूयं सर्वे रुद्रवरा वेदबाह्याश्च वै भृशम् १.
पाषंडवादसंयुक्ताः शिष्टऽऽचारबहिष्कृताः १.
इति शप्तास्तदा तेन दक्षेण शिवकिंकराः १.
शप्ता वयं त्वया विप्र साधवः शिवकिंकराः १.
वेदवादरता यूयं नान्यदस्तीतिवादिनः १.
वैदिकं च पुरस्कृत्य ब्राह्मणाः शूद्रयाजकाः १.
दक्ष केचिद्भविष्यन्ति ब्राह्मणा ब्रह्मराक्षसाः लोमश उवाच १.
अथाकर्ण्येश्वरो वाक्यं नंदिनः प्रहसन्निव १.
कोपं नार्हसि वै कर्तुं ब्राह्मणान्प्रति वै सदा १.
वेदो मंत्रमयः साक्षात्तथा सूक्तमयो भृशम् १.
तस्मान्नात्मविदो निन्द्या आत्मैवाहं न चेतरः १.